________________
PAISASUR
१३०
योगवार्तिकम्। तस्य सर्वविकाराणामात्मनः स्वरूपस्य महतो महत्तत्त्वस्य . बुद्धयाख्यस्य परिणामाः षट् अविशेषसंज्ञका इत्यर्थः । अविशेषत्वं च सामान्यत्वम् । यपि षोडशविशेषाणां सामान्यत्वं महत्तत्त्वप्रकृत्योरप्यस्ति तथाविशेपशब्दः पङ्कजादिशब्दवयोगरूढः षट्स्वेति । अत्र षण्मध्ये तन्मात्राणां बुद्धिपरिणामित्वमहंकारद्वारैव मन्तव्यं सूत्मविषयत्वं चालिङ्गपर्यवसानमिति सूत्रे भाष्येण तथा व्याख्यातत्वादिति । लिङ्गमात्रपर्व व्याचष्टे । यत्तत्परमिति । अविशेषेभ्यो यत्परं पूर्वोत्पत्वं वंशस्योद्वित्पर्ववज्जगदङ्कुरो महत्तत्त्वं तल्लिङ्गमात्रमित्यर्थः । लिङ्गाखलवस्तूनां व्यञ्जकं तन्मात्रं महत्तत्त्वम् । महत्तत्त्वं हि स्वयंभोरादिपुंसः कार्यब्रह्मण उपाधिभूतं सादौ सर्व जगदासयदेवो त सुप्तोत्थिचित्तवत् । ज्ञानातिरिक्तस्तु व्यापारः पश्चादेवाहंकारादुत्पन्नो भवत्यतोलिङ्गमात्रमित्युच्यते । तथा च स्मृतिः ।
ततो ऽभवन्महत्तत्त्वमव्यक्तात कालचोदितात् । विज्ञानात्मात्मदेहस्थं विश्वं व्यजस्तमानुदः ॥ *
इति । कश्चित्तु लयं गच्छतीतिलिङ्गपदस्यार्थमाह । तत्तु प्रमाणादशनादुपेक्षितम् । अहंकारादेपि लयगमनेन महत्तत्त्वमात्रे लिङ्गमात्रप्रयो. गानौचित्याच्च । तथा लिमिति मात्रशब्दार्थानुपपत्तेश्चेति । तस्मिं. स्तत्त्वे महच्छब्दप्रयोगबीजम् अहंकारात्यखिलविकाराधारत्वमाह । तस्मि. निति । तस्मिन्सत्मरूपे ते पूर्वोक्ता अविशेषविशेषाः पदार्थाः अवस्थया अनागतावस्क्या स्थित्वा उत्तरोत्तरवंशपर्वाणीव विद्धिकाष्ठां स्थावरज. मानां प्रामुन्ति
महान्मादुरभूद् ब्रह्मा कूटस्था जगदङ्करः । इति स्मृतः। तथा प्रतिसंसृज्यमानाः प्रतीयमानाश्च ते तस्मिन्नेवावस्थया अतीतावस्यया अनुगता भूत्वा तेनैव सह यत्तत्प्रसिद्धसाम्यावस्थगुणत्रयरू
* मनुनाप्यक्ति। ततः स्वयंभूभगवानव्यक्तो व्यजचिदम् । महाभूतादिवत्तीनाः प्रादुरासीत्तमानुदति । इतिपाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org