________________
योगवार्तिकम् ।
१२९ ख्याको गुणानां विशेषाख्यः परिणाम इत्यर्थः । ननु दन्द्रियवत्तन्मात्राण्यहंकारस्य विशेषाः कथं नोक्ताः शब्दस्पर्शादिविशेषवत्त्वादिति चेत्र । विशेषमात्रस्यैवात्र विशेषपरिभाषणात् तन्मात्राणां तु भूतानाविशेषा अपि भवन्तीति । अविशेषपर्व व्याचष्टे । षड् विशेषा इति । षड् गणति । शब्दतन्मात्रमित्यादिना अस्मितामात्रइत्यन्तेन । एकद्वितीति । लक्ष्यतेनेनेति लक्षणं धर्मःतन्मात्राणां द्रव्यत्वलाभाय लक्षणपदं तथा चोत्तरोत्तरतमात्रेषु पूर्वपूर्वतन्मात्राणां हेतुत्वाच्छन्दतन्मात्रं शब्दमात्रधर्मकं तत् कार्यतया स्पर्शतन्मात्रं शब्दस्पर्शभियधर्मकम्, एवं क्रमेणैकैकलक्षणधर्मद्धिरि. त्यर्थः । एतेषु च मात्रशब्दैः शान्तादिविशेषस्यैव व्यावृत्तिनं तु गुणान्तर. संपर्कस्य एद्वियादिलक्षणत्ववचनात् ।
तन्मात्राविशेषाणि अविशेषास्ततो हि ते । न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥
इति विष्णुपुराणाच्चेति । ननु तन्मात्रेषु परस्परं कार्यकारणभावे सिद्धण्व कारणगुणक्रमेणोत्तरोत्तरं गुणद्धिः सेत्स्यति तत्रैव तु किं प्रमाणं श्रुतिस्मृत्योः स्यूलभूतेष्वेवाकाशादिक्रमेण कारणतासिद्धेरिति चे,दाकाशादिस्थलभतेभ्यो वाय्वायत्पत्तिदर्शनेन नमोऽपि भते तथा कार्यकारण. भावकल्पनस्यौचित्यमिति । एतानि च तन्मात्राणि तामसाहंकाराच्छब्दादिक्रमेणोत्पढ्यन्तति बोध्यम् । अस्मितामानोऽभिमानत्तिकः, तेनेन्द्रियभावापवाहंकारव्यावृत्तिः । एते सत्तामात्रस्येति । सत्ता विदामा. नता व्यक्ततेति यावत् । व्यक्ततामात्रं महत्तत्त्वमाझकार्यत्वात् । प्रलये हि सर्व विकारद्रव्यम् अतीतानागतरूपाभ्यामेव तिष्ठति न तु विनमानतया, अत पादयविकारोङ्कुरवयो महान सादी सत्तां लभते स सत्तामात्रमुच्यते । स च सत्सामान्यतया सत्तामात्रमुच्यले सद्विशेषाणामहंकारादीनां तदानीमभावात् । अत एव यास्कमुनिना शब्दादिषड्भावविकारमध्ये जन्मोत्तरमस्तितैव विकार उक्तः । तथा च संसारवृक्षस्यास्ति. तामात्रपरिणामो महत्तत्वं वृद्धिपरिणामस्त्वहंकारादिरिति । एवंभ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org