________________
-
१२८
योगार्तिकम् । गापवर्गरूपैः पुरुषार्थः संबन्धो बुद्धर्बन्धो वियोगश्च मुक्तिरिति भावः । एतो च बुद्धेः परमबन्धपरममुक्ती । पूर्वोक्ता तु भोगापव! अपरबन्धजीवन्मुक्ती इविरोधः । एतेनेति । एतेन शब्दादिविषयभोगविवेकख्यात्याः पुरुषेष्वा. पचारिकत्वेन यहणादयोपि पुरुषेषपचरितसत्ताका वेदितव्या इति शेषः । यहणं स्वरूपमात्रेणार्थज्ञानं, धारणा चिन्तनम् अहोऽर्थगतविशेषाणां वितर्कणमपोहो वितर्कितमध्ये विचारतः क्रियतां निराकरण तत्त्वज्ञानं वितर्कितमध्ये एव विचारतः किद्विशेषावधारणम् अभिनिवेशस्तदाकार. तापतिरिति । प्रकृतस्य योगस्य भूमिकारूपतयैव चित्तपरिणामा अत्र गणिता एतैश्चान्येपीच्छाकृत्यादय उपलक्षणीया इति । नन्वनेन सूत्रेण गुणानामेव दृश्यत्वं प्रोक्तं न तु विकाराणामिति न्यनतानिरासाय प्रवर्त्तमानं सूत्रान्त. रमवतारयति । दृश्यानां विति । स्वरूपभेदावधारणार्थम् अवान्तरभेदप्रतिपादनार्थमित्यर्थः।
विशेषाविशेषलिङ्गमाचालिङ्गानि गुणपाणि ॥ १८ ॥
गुणात्मको वंशस्तस्य लिङ्गादिविशेषान्तपर्वचतुष्टयं बीङजारवाद वस्थाभेदाः नात्यन्तं भिवा अतो गुणेष्वेव सर्वदृश्यानामन्तीव इति सूत्रकारम्याशयः । कार्यैः कारणान्यनुमीयन्ते इत्याशयेन विशेषादिक्रमेण पर्वगणनम् । तत्र यस्ययस्याविशेषस्य योयो विशेषस्तमाह । तत्राकाशेति । आकाशादीनि भूतानि शब्दादितन्मात्राणां शान्तादिविशेषशन्यः | शब्दादिधर्मकसूक्ष्मद्रव्याणामन एवाविशेषसंजकानां विशेषा अभिव्यक्तशान्तादिविशेषकाः परिणामाः, यथाक्रमिति शेषः। तति । विशेषा इत्या. गामितान्वयः । मनस इन्द्रियमध्यप्रवेशे हेतुगर्भविशेषणं सर्वार्थमिति । सर्वेषां दशेन्द्रियाणामा एवार्था यस्यति मध्यमपदलोपी समासः । मनःसहकारेणैव त्रादीनां शब्दादियाहकत्वादिति। अहंकारस्याविशेषत्वे हेतुगर्भविशेषणम् । अस्मितालक्षणस्येति । अभिमानमात्रधर्मकस्य श्रवणस्पर्शनदर्शनादिरूपविशेषरहितस्याहंकारस्येति शेषः । पिण्डीकृत्य विशेषपापसंहति । गुणानामिति । एवं पञ्चभूतैकादशेन्द्रियगणः षोडशसं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org