________________
योगवार्तिकम् ।
१२७ तुरीयवाक्यानि जायदादयवस्थसत्त्वादिगुणत्रयापेक्षया सातित्वमेव पुरुषस्य तुरीयावस्यां वदति इति सिद्धम् । तथा च स्मर्यते । ... सत्त्वाज्जागरणं विद्याद्रजसा स्वप्रमादिशेत् ।
प्रस्वापनं तु तमसा तुरीयं त्रिषु संततम् ॥
इति। ननक्तयोभीगापवर्गयोर्गुणकार्यतया गुनिष्ठत्वेन कथं पुरुषस्य भोगापार्थ दृश्यमित्युक्तमित्याशते । तावेताविति । यतो बुद्धिष्टतो अन्वयव्यतिरेकाभ्यां बुद्धिका अतो लाघवेन बुद्धावेव वर्तमानौ न तु पुरुषनिष्ठा इत्यादिरर्थः । दृष्टान्तप्रदर्शनपूर्वकं परिहरति । यथेत्यादिना। पुरुषे स्वामित्वाज्जयादिवत् तो व्यदिश्यते इति वाक्यार्थः । बन्धमो. तो यथोक्तभोगापवर्ग। स हि तत्फलस्र्योत। बुद्धिगतयोर्विषयावधारणपुरुपावधारणयोः फलस्य सुखादिरूपस्य भोक्ता स्वप्रतिबिम्बितस्य साक्षी अतस्तयोः स्वामीत्यर्थः । अत्र पुरुषस्यापि स्वातन्त्र्येण भोगस्योक्तत्वात स्वरूपप्रतिष्ठा वा चितिशक्तिरित शास्त्रप्रान्तसत्रे पुरुषस्य स्वतोपि मोक्षस्य वक्ष्यमाणत्वाच्च पुरुषस्य भोगापर्वा न निराक्रियते बद्धिगतभोगापवर्गयोः स्वतोऽपुरुषार्थत्वाच्च करणव्यापारस्य पुरुषार्थतासिद्धान्ता. च्च, अपि तु परिणामरूपो यथोक्तभोगापवावेव पुरुषस्य निराक्रियेते । अत एव तावेतावित्यनेन भोगापवा विशेषतौ भाष्यकारणेति । पुरुषाणां च संसारिणां मुख्य एव भोगो बुद्धिवविविक्तः सुखादिसाक्षात्कारः। जीवन्मुक्तेश्वरयोस्तु गौणो भोगः सुखादिसाक्षात्कारमात्ररूप इतीश्वरल. तणसूत्रे प्रतिपादितमस्मारिति । यदि च पुरुषे पृथग्भोगमोती न स्वीक्रियते तदा।
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ।
इत्यादिवाक्यानि नोपपदोबिति दिक् । बुद्धेरेव परमो बन्धमा चावपि दर्शति । बुद्धेरेति । बुद्धिरूपेण परिणतानां गुणानामेवेत्यर्थः ।। तदर्थावसायो विवेकख्यात्याः । पुरुषार्थसमाप्तिः । तथा च यथोक्तमो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org