________________
योगवार्तिकम् । इत्यतस्तादृशं गुणत्रयं पुरुषस्य भोगापवाय हि भोगापवर्गफलकमेवेत्यर्थः । भोगापवा व्याचष्टे । तोष्टानिष्टेति । इष्टानिष्टगुणाः सुखदुःखात्मकाः शब्दादयः तत्स्वरूपावधारणं तदाकारा बुद्धित्तिः न तु पुरुषनिष्ठः सा. तात्कारः बुद्धिनिष्ठतायाः वयमाणत्वात् । स हि तत्फलस्य भोक्तत्यनेने पुरुषर्षानष्ठस्य भोगान्तरस्य वक्ष्यमाणत्वात पुरुषनिष्ठभोगस्य चित्स्व. रूपतया नित्यत्वेन न फलत्वमञ्जसास्तीति भावः । शब्दादिवृत्तिकाले विवेकख्यातिसत्त्वे वत्यमाणापवर्ग एवेति तादृक्शब्दादिव्यावृत्त्यर्थमविभागापचमिति विशेषणं पुरुषेण सहाविविक्तम् । अहंकारेण ममेत्यामनिष्ठतयाभिमन्यमानर्माित यावत् । जीवन्मुक्तस्य भोगाभासण्व । अहं शृणामीत्यादभिमानगर्भेष्वेव शब्दादिवृत्तेर्गुणेषु भोगव्यवहारात। भोरिति । भोक्तः पुरुषस्य यत्स्वरूपमुपाधिविविक्तचैतन्यं तदाकारा बुद्धिरपवर्गः।
आदौ तु मोक्षा ज्ञानेन द्वितीयो रागसंतयात् । . कृच्छ्रत्रयात्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥
इति । पञ्चशिखवाक्यात्। अपज्यतेऽनेनेति व्युत्पत्तेर्वेत्यर्थः। ननु भोगापवर्गातिरिक्तार्थमपि दृश्यं कथं भवतीत्यांकाक्षायामाह । तयोरिति । दर्शनं बुद्धित्तिः । अविभागापत्रतायां पञ्चशिखाचार्यसंवादमाह । तथा चोक्तमिति । अयं लोकेषु गुणेषु सर्वकर्तृषु सत्सु गुणत्रयापेक्षया चतुर्थ तुरीये पुरुषे गुणव्यापाराणां जायदादीनां सातिमात्रे कर्तर्युपनीयमानान बुझा समर्प्यमानान् गुणपरिणामान् तत्रैव पुरुषे उपपत्रान् युक्तिसिद्धानिव पश्यन मूढो न गुणेभ्योन्यदर्शनं चैतन्यं शङ्कते संभावयत्यपीत्यर्थः । पत्र विवेकायहणे भिन्नत्वे च हेतुस्तुल्यातुल्यजातीय इति । पुरुषविशेषणम् । बुद्धिपुरुषयो?योरपि स्वच्छत्वसूक्ष्मत्वादिना साम्याद्गुणपुरुषयोस्तुल्यजातीयत्वं जडाजडत्वपरिणामित्वापरिणामित्वादिभिश्च वैजायमित्या. शयः । अत्र भाष्ये गुणत्रयापेक्षया पुरुषस्य चतुर्थत्ववचनात् अन्यान्यपि
. शब्दादिवृत्तिगुणेति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org