________________
योगवार्तिकम् ।
१२५ वहाराभिप्रायेण प्रकाशादिफलोपहिततयैव हि सत्त्वादिव्यवहारो दृश्यते इति अन्यथा गुणनित्यवसिद्धान्तव्याघातात् । अखण्डैकप्रकृर्विचित्रपरिणामासंभवाच्च संभवे वा महदादिकार्यान्तराणामपि केवलप्रकृतेरेष सं. भवात गुणकल्पनावैयर्थ्यम् । किं च गुणरूपावच्छेदभेदादेव तत्संभव इति चेत्, न । तथा सति गुणेभ्य एव सर्वकार्यापपत्त्या तदतिरिक्तप्रकृतिवैयर्थम् । किं च यदि गुणत्रयातिरिक्ता प्रकृतिः स्यात् तदा
गुणसाम्यमनुद्रिक्तमन्यनं च महामते । उच्यते प्रतिहेतुः प्रधानं कारणं परम् ॥
इत्यादिस्मृतिषु सत्त्वरजस्तमसां साम्यावस्था प्रकृतिरिति सांख्य. सूत्रे च साम्यावस्थगुणानां प्रकृतित्ववचनमाञ्जस्येन नापपोत, नोपपद्यते च विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि' 'ते व्यक्तसूत्मा गुणात्मानः' 'परिणामक्रमसमाप्तिर्गुणाना मित्यादिसूत्रेषु भाष्ये च गुणानामेव मूलकारणत्ववच मित्यादिदूषणं स्यादिति । साम्यावस्था च न प्रकृतिलक्षणे विशे. षणमपि तु यदा कदाचित्संबन्धेनोपलक्षणम् । काकवन्तो देवदत्तस्य गृहा इतिवत, सा च न्यनाधिकभावेनासंहननावस्था अकार्यावस्छेति यावत् । तदुपलक्षितगुणत्वं च प्रकृतिलक्षणं महदादिव्यावृत्तं तेन सर्गकालेपि गुणानां प्रकृतित्वोपपत्त्या न प्रतिनित्यतातिः नापीश्वरस्य सदैकरूप्येण साम्यावस्थाशन्यत्वेऽपि तत्र प्रतिलतणातिव्याप्तिरिति दिक। गुणेषु प्रमाणेोपदर्शक भन्द्रियात्मकप्रिति विशेषणं व्याचष्टे । तदेततेति । भूतभावनेत्यस्य विवरणं प्रथिव्यादिति । तत्राप्यवान्तरविशेषमाह। सूत्मस्यलेनेति । तन्मा. त्राणि सूक्ष्माणि पृथिव्यादीनि महाभूतानि स्थलथिव्यादीनि । इन्द्रियभावेनेत्यस्य विवरणं श्रोत्रादि!त । तत्राप्यवान्तरविशेषमाह । समस्यलेनेति । महदहंकारी सत्मेन्द्रियमेकादश च स्थन्द्रियाणि । इन्द्रियस्य संघाते ईश्वरस्य कारणत्वादित्यर्थः । भोगापवामिति गुणस्यैवापरं विशेषणं, मोक्षोपपादकं व्याचष्टे तत्तु नाप्रयोजनमित्यादिना। तद्गुणत्रयं न प्रयोजनशन्यं सत भन्द्रियरूपेण प्रवर्तते अपि तु प्रयोजनं स्वीकृत्यैव प्रवर्तत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org