________________
१२४
योगवार्तिकम् ।
रजस्तम इति गुणा: प्रकृतिसंभवा' इति गीतादिवाक्योक्तं सत्त्वादः प्रकृतिकार्यत्वं चानुपपत्रम् | तथाष्टाविंशतितत्त्वपक्षेोपि नोपपदयेतेति । अत्रोच्यते । पुरुषभेदेन सर्गभेदेन च भेदाभाव एव प्रकृतेरेकत्वमजादि वाक्यैस्तन्मूलकसांख्यादिभिश्व प्रतिपादयते अजावाक्ये तथातात्पर्यीवधारणात् । भोग्यभोक्ताहि मध्ये भोग्या 'गुणा 'भोग्यत्वाभोग्यत्वाभ्यां सर्गभेदेन भिद्यन्ते । एते भोगाही एते च नेति मुक्तपुरुषोपकरणानामप्यन्यपुरुषभोग्यत्वात् । भोक्तारस्तु पुरुषाः भोक्तृत्वाभोक्तृत्वाभ्यां सर्गभेदेन भिदान्ते पूर्वसर्गमुक्ता नोत्तरसर्गे भोक्तारः किं त्वन्यऐवेति । अतः प्रकृतिरेका पुरुषस्त्वनेक इत्युच्यते। तथा तव गुणाः सर्वसर्गेषु स्रष्टारो भवन्ति महदादिविकाराणां तु सर्गभेदेन भिवत्वं स्पष्टमेव प्रतीतव्यक्तेः पुनरनुदयस्य वक्ष्यमाणत्वादिति । यदि तु प्रकृतिरेकैव व्यक्तिः स्यात् तदा निमित्तमप्रयेोजकं प्रकृतीनामिति प्रकृतिबहुत्वसूत्र विरोध इन्द्रो मायाभिः पुरुरूप ईयत इत्यादिश्रुतिविरोधश्चेति । व्यापकत्वं च प्रकृत्तेः कारणत्वसामान्येनैव बोध्यम् । कारणशून्यप्रदेशाभावात् गन्धादेः पृथिव्यादिव्यापकत्ववत् । महदादिकं तु सामान्येनापि न व्यापकमिति । अत एवांशभेदेन प्रकृतेर्व्यापकत्वपरिच्चिचत्वयोरभ्युपगमाज्जात्यन्तरपरिणामः प्रकृत्यापूरादित्यागामिसूत्रोक्तः प्रकृत्यापूरो घटतइति । प्रकृतेरक्रियत्वं चाध्यवसायाभिमानादिरूपप्रतिनियतकार्य शून्यत्वमेव न तु चलनादिकर्मशुन्यत्वं 'प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्वीजं प्रधानपुरुषात्मक' मित्यादिस्मृतिषु प्रकृतेरपि चलनापरनामकतोभावगमात् । 'प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मा. नवि । चेष्टा यतः स भगवान् काल इत्यभिधीयते' इति स्पष्टंक्रियास्मरणाच्च । यत्तु क्वचित्पुरुषस्यापि क्षोभः श्रूयते स संयोगोन्मुखत्वेन गोणः प्रकृतिकर्मणैव संयोगोत्पत्तेरिति । प्रकृतेर्नरवयवत्ववाक्यानि चारम्भकावयवनिषेधकानि न तु वनांशवृततुल्यानामंशानां निषेधकानि । एतेन एते प्रधानस्य गुणा इत्यादिवाक्यान्यप्युपपादितानि घनतुल्यस्य प्रधानस्यांशिनः पनसाम्रदाडिमादितुल्यस्य गुणद्रव्यस्यांशत्वाभ्युपगमात् इति । यच्च सत्त्वादीनां प्रकृतिकार्यत्ववचनं ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org