________________
योगवार्तिकम् ।
१२३ त्यायापत्त्या प्रकाशादिशक्तिसार्यमिति तबाह । परस्पराङ्गाङ्गित्वेपीति। अन्योन्याङ्गाडिभावेन उत्पादिपि द्रव्ये प्रकाशगुणः सत्त्वस्यैव क्रियागुणा रजस एव स्थितिगुणस्तमस एवेत्यतो न प्रकाशादिशक्तिविभागस्य मभेदः संमिश्रणमित्यर्थः । तथा तुल्यजातीयातुल्यजातीयक्तिभेदानुपातिनः सत्त्वादिजात्या सजातीया विजातीयाश्च ये सहकारिक्तिविशेषाः तदनु. पातिनस्तेषामविशेषेणोपष्टम्भकस्वभावा इत्यर्थः। एतेन सत्त्वादीनि व्यक्ति रूपेणानन्तानि । त्रिगुणत्वादिव्यवहारस्तु सत्त्वत्वादिजातिमात्रेण वैशेषिकाणां नवद्रव्यव्यवहारवदिति सिद्धम् । अत एव लघुत्वादिधर्मरन्योन्यं साधम्यं वैधयं च गुणानामिति सांख्यसूत्रेण सत्त्वादीनां साधर्म्यवैधये लघु. स्वादिरूपे प्रदर्शिते इति । तथा प्रधानवेलायां स्वस्वप्राधान्यकाले ऽभिव्य. तसांनिध्या विकारेषु भवन्ति तथा गुणत्वपि इतरोपसर्जनतादशायामपि व्यापारमात्रेण तथा विषयविधया अयस्कान्तर्माणच्चित्तस्याकर्षकाः । वा. ति हि । अयस्कान्तमणिकन्या विषयाः प्रयासधर्मकं चित्तमिति । तथा प्रत्ययमन्तरण अभिव्यक्ति विना स्वानभिव्यक्तिकालदति यावत् । तदानीमेकतमस्य यस्य कस्य चित् गुणान्तरस्य त्तिमनु सूत्मवृत्तिमन्तः वृत्त्यतिसयानामेव विरोधस्योक्तत्वादिति विशेषणवार्थः। एतदृश्यमित्युच्यतइति। एसवणत्रयमेव कार्यकारणभावापवं दृश्यमुच्यते नास्ति ततोतिरिक्तं दृश्या. तमित्यर्थः । एसएवं च गुणा न्यायवैशेषिकाभ्यां द्रव्याष्टकरूपेण विभज्यन्ते। वेदान्तिभिस्तु मायेत्युच्यते । मायां तु प्रकृति विवादिति श्रुतेः । तदुक्तं बृहद्वासिष्ठे । 'नामरूपविनिर्मुक्तं यस्मिन्सतिष्ठते जमत । तमाहुः प्रकृति के चित मायामन्ये परे त्वनिति । स्यादेतत् । यदि त्रिगुणातिरिक्ता प्रष्ट तिनास्ति तदा अजामेकां लोहितशुलाटष्णामित्यादि श्रुत्युक्तं प्रकृतेरेकत्वादिकं व्याहन्येत । सथा । 'हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम्' इत्यादिनोक्तो व्यापकवाक्रियत्वनिरवयवत्वादिरूपश्च सांख्यादिसिद्धान्तो व्याहन्येत । तथा 'एते प्रधानस्य गुणास्वयः स्यरनपयिन' इत्यादिस्मृतिपरंपरासु प्रधानस्य गुणानां चाधाराधेयभावहेतुहेतुमदाययोर्वचनं नोपपोत । 'तथा सत्त्वं
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org