________________
-
१२२
योगवार्तिकम् । - प्रलये प्रकाशादिकार्याभावाच्छीलपदोपादानं प्रकाशो बुयादिव. तिरूपालोको भौतिकालोकश्च । क्रिया यनश्चलनं च । स्थितिः प्रकाशक्रियाभ्यां यथोक्ताभ्यां शून्यत्वं तयोः प्रतिबन्ध इति यावत् । तच्छीलं गुणत्रयमिति विशेष्यपदमत्रोत्तरसूत्रे गुणपर्वाणीति विभागवचनात् लभ्यते, ऽत एव भाष्यकाररैते गुणा इति व्याख्यास्यन्ते । तादृशेषुः गुणेषु प्रमाणमाह । भूतेति । भूतेन्द्रियात्मकं स्थूलसूत्मरूपाणां भूतानां स्थूलसूक्ष्मरूपाणां पेन्द्रियाणां कारणं तेन महदाखिलकार्यकारणत्वमेव लब्धं तच्च गुणेषु सेषां प्रकाशादिरूपतायां च प्रमाणं त्रिगुणात्मकानां च नडकार्याणां जिगुणात्मकजडकारणं विनानुपपत्तेरिति । गुणानां कार्यमुनवा स्वरूपसत्ता. प्रयोजक प्रयोजनमाह । भोगापयामिति । भोगापवर्गप्रयोजनवदिति सूत्रार्थः । नन्वेवं गुणत्रयस्यैव दृश्यत्वं प्राप्त न तु विकाराणामिति घेव। गुणपर्वतयोत्तरसूत्रेण तेषामपि संयाह्मत्वादिति । तदेतत्सत्रं व्याचष्टे । प्रकाशशीलमिति । ननु सत्त्वादिगुणा एव चेत् प्रकाशादिशीला दृश्यत्वेना. बोक्तास्तर्हि प्रकृत्यवचनात सूत्रकारस्य न्यनता । तथा सत्त्वादिगुणानामेव भूतेन्द्रियात्मकत्वस्वीकारात प्रकृतिसिद्धान्तक्षतिर्वैयादित्याशा गुणा एवं प्रतिशब्दवाच्याः न तु तदतिरिक्ता प्रकृतिरस्तीत्यवधारयति । एते गुणा दति। मत्त्वादयो गुणा एते प्रष्टतिशब्दवाच्या भवन्ति प्रधीयते ऽस्मिन्कार्यजातमित्यादिव्युत्पत्त्या प्रधानप्रकृत्यादिशब्बैरुच्यन्तदत्यन्वयः। तथा च सां. ख्यसूत्र ‘सत्त्वादीनामतदुर्मत्वं तद्रपत्वादिति। सत्त्वादिषु गुणत्वं च पुरुषोपकरणत्वात्तद्वन्धकत्वाच्च न तुप्रकाशक्रियादिवत् परसमवेतत्वादिति भावः। प्रधानशब्दवाच्यत्वोपपादनाय गुणानामेव जगत्कारणनित्यत्वादिकं हे. तुगर्भविशेषणैरुपपादति। परस्परेति। सत्त्वस्य प्रविभागोऽधिकभागः स्वल्पाभ्यां च रजस्तमोभ्याम् उपरक्तः संसृष्टः । एवं रजसः तमस इत्येवं परस्प रोपरक्तविभागाः । तथा संयोगविभागधर्माणः परस्परं संयोर्गावभागस्व. भावाः। एतेन गुणानां द्रव्यत्वं सिद्धम् । तथा इतरेतरसाहाय्येनोत्पादिता. पर्यावनः कार्यकारणभेदेन चारम्भवादाद्विशेषः । ननु यदीतरसाहाय्येन सर्व गुणा: सर्वकार्यकारणानि तर्हि सत्त्वादेरपि क्रियादिहेतुत्वेन सक्रिय
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org