________________
योगवार्तिकम् ।
१२१
अनापि दार्शन्तिपि । अयं भावः । बुद्धेरेकवेपि त्रिगुणात्मकत्वादंशत्रयमस्ति। तत्र रजोशस्तापकः सत्त्वांशस्ताप्यो बुद्धिपुरुषयोर्वियोगश्च दुःखप्रतीकार इति चयमुपपर्धामति । ननु पुरुष एव कथं न तप्यो भवती त्याशयेन पृच्छति । कस्मादिति । सिद्धान्तमाह । तथापीत्यादिना तेत्रज इत्यन्तेन । कर्मस्यत्वात् कर्मतन्त्रत्वात सकर्मकत्वादिति यावत् । कर्मत्वं च क्रियाव्याप्यत्वं दुःखव्याप्यत्वं वा परिणामिनि न संभवती. त्यर्थः । वृत्तिव्याप्यत्वं तु विषयतारूपमपरिणामिन्यपि संभवतीत्यतो जानक्रियाकर्मत्वं पुरुषस्योपपातइति विशेषः । यच्च पुरुषस्य स्वजेयत्वं तदपि स्वप्रतिोिम्बतबुद्धित्तिव्याप्यत्वमेवेति न तत्रापि परिणामापे. तेति । नन्वेवं कथं दुःनिवृत्तिः पुरुषार्थः परदुःखस्याहेयत्वात् । न च पुरुषनिष्ठत्वभ्रमात् दुःखं हेयं स्यादिति वाच्यम् । विदुषामपि दुःखहानार्थमसंप्रजातार्थितायाः स्वीकारादित्याशहां समाधत्ते । दर्शितविषयवादित्यादिना । पुरुषो यतो दर्शितविषयो बुद्धिसत्त्वेन निवेदितविषयो ऽतः सत्त्वे तप्यमाने प्रतिबिम्बरूपेण बुद्धिसत्त्वसमानाकारो भवन तु तप्यतइति मदृश्यते अनुतप्यतइवेत्यर्थः । नहि स्वाकारप्रतिबिम्बनातिरिक्तं विषयनिवेदनमपरिणामिनि संभवति प्रतिपादितं चैतत्तिसारूयमितरति मजे, तथा च प्रतिबिम्बरूपेण भोगाख्यसंबन्धेन विदुषामपि दुःखस्य हेयत्वाच पुरुषार्थासंभवदोष इति भावः। ये तु पुरुषस्य भोक्तृत्वमपि नेच्छन्ति तेषामेवाधुनिकवेदान्तिब्रुवाणामयं दोषः । इदानों द्रष्टदृश्यसंयोगानां त्रया. णामेव स्वरूपं सूत्रकारो वयति । तत्र दृश्यरूपप्रतिपादकं सूत्रमवतार. यति । दृश्यस्वरूपमुच्यतइति । अत्र पाठक्रमवैपरीत्येनादौ दृश्यकथनस्येदं बीजं दृशिमात्र इत्यागामिसूचे मात्रशब्देनाखिलदृश्यभेदतो द्रष्टा प्रतिपादनीयः । तत्र च प्रतियोगिनां दृश्यानां ज्ञानमादावपेत्यतइति । पूर्वसूत्रे च प्राधान्यादादी द्रष्टुरूपन्यास इति बोध्यम् ।
प्रकाशक्रियास्थितिशील भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम ॥ १८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org