________________
१२०
योगवार्तिकम् । ज्ञाननाश्यत्ववचनविरोधः नाशित्वे परिणामः पुरुषस्य स्यादिति । ननु संयोगस्वीकारे पुरुषस्यासंगताक्षतिरिति चेत्र । पुष्करपत्रे पुरुषदृष्टान्ते संयोगसत्त्वेपि असंगताभ्युपगमात् । स्वाश्रयविकारहेतुसंयोगस्यैव संगत्वात् । पुरुषे च तादृशसंयोगास्वीकारादिति । तस्मात् पुरुषार्थनिमितको बुद्धिपुरुषयोः संयोगो भर्वात स एव च जन्मरूपतया दुःखहेतुरिति सिद्धम् । स च संयोगविशेषः परमेश्वरस्य योगमाया योगीन्द्रपि अचिन्त्या | श्रुतिस्मृतिगम्या न विशेषतस्तर्कगोचरा भवति । यया खलु नित्यमुक्तमसङ्गः मविनादिरहितं विभु चिन्मात्रमात्मानं जीवजातमीश्वरो निबधाति । तथा चोक्तम् । 'अचिन्त्याः खलु ये भावा न तांस्तर्कण योजये दिति। सेयं भगवतो माया यत्रये न विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धमिति च । संयोगस्य दुःखहेतुत्वे पञ्चशिखाचार्यस्य संवादमाह । तथा चोक्तमि त्यादिना प्रतीकार इत्यन्तेन । तयोर्बुद्धिपुरुषयोः संयोगो दुःखहेतुस्तस्य परिवर्जनादत्यन्तोच्छेदात दुःखस्यायन्तिकः प्रतीकार उच्छेदः स्यादि. त्यर्थः । नन्वनादिकालप्रवृत्तस्य दुःखहेतुसंयोगस्योच्छेदो न शक्यसंभावन इत्याशयेन पृच्छति प्रसङ्गात्तच्छक्यत्वमवधारयितुम् । कस्मादिति। उत्तरम् । दुःखहेतोरिति । परिहार्यस्येत्यनेन प्रकृत्यादिनित्यव्यात्तिः। तथा च दुःखहेतुत्वनित्यवलिन संयोगस्य शक्योच्छेदकत्वम् अनुमेयमित्याशयः दुःखहेतोः प्रतीकार्यत्वे किकमुदाहरणमाह । तमति । भेट्यत्वं भेद नदुःखभागित्वं भेत्तृत्वं च भेदद्वारा दुःखहेतुत्वं पदानधिष्ठानं पादेनाना रोहणम् । पादत्राणमुपानत् । तदावहितेन वा पदा कण्टकस्यारोहम त्यर्थः । एतचयं दुःखाश्रयदुःखहेतुतत्परीहारोपायरूपमित्यर्थः । यो वेंत्यनेनैतचयज्ञानस्य प्रतीकारहेतुत्वं वदन एतचयं मुमुक्षुभिर्जयमित्यप सूचितवान् । ननु तापो दुःखमिति पर्यायः तथा च दृष्टान्ते यथा भेदाभो। प्रतीकाररूपं त्रितयस्ति नैवं दान्तिके तत्रैकस्या बुद्धेरेव तप्यतापा. भयरूपताभ्युपगमात पुरुषस्य निर्दुःखत्वादित्याक्षिपति । कस्मादिति । सिद्धान्तमाह । त्रित्वोपलब्धीति । बाह्यदुःखस्थलउक्तत्रयोपालाबा. दन्तर्दुःखस्थानेपि त्रयसिद्धिरिति भावः । तस्य प्रकारमाह । अनापी ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org