________________
योगवार्तिकम् ।
११९ सेवापरतन्त्रा स्वयं द्रष्टी स्वार्थैव भवतु तत्राह।अनुभवकर्मत्यादि । यतःकर्मकतविरोधेन स्वदृश्यत्वानुपपत्त्या अनुभवाख्यं यत्पुरुषस्य कर्म तद्विषयतामा. पत्रं सदेवान्यरूपेण पुरुषचैतन्येन प्रतिलब्धात्मकं सिद्धसत्ताकं, अन्यरूपेणान्यप्रयोजनेन लब्धस्थितिकं वा अतः स्वतन्त्र पुरुषानाश्रितमपि परार्थ. त्वात् परतन्वं परस्य स्वमित्यर्थः । तदेवं दृश्याख्यभोग्यात्मकाखिलपुरुषार्थस्य बुद्धिनिष्ठत्वे सिद्धे स एव पुरुषार्थानागतावस्थो बुद्धिपुरुषयोः संयोगे हेतुरिति वदन सूत्रवाश्यार्थमाह । तयोरिति । तयोः स्वस्वा. मिनोः, दृश्यतेनयेति दर्शनं बुद्धिः । अनादिश्चात्र प्रवाहरूपेण पुरुषार्थकृतत्ववचनात् । ननु पुरुषार्थसंयोगाङ्गीकारे सत्यपरिणामित्वभङ्ग इतिचे. च । सामान्यगुणातिरिक्तधर्मात्पत्तरेव व्यवहारानुसारेण परिणामशब्दार्थ. त्वावधारणात् । घटादासंयोगाराकाशस्य द्वित्वादिभिश्च पुरुषस्य परिणामव्यवहाराभावात् । पदपत्रस्थतोयेन पनपत्रस्यापरिणामासंयोगादिश्रवणाच्च । संयोविभागसंख्यादयस्तु द्रव्यसामान्यगुणा इति । अपि च पुतिस्मृत्योः सुखादिरूपाः परिणामा एव पुरुषे नाभ्युपगम्यन्ते, मनोन्वय. यतिरेकेण मनस्येव लाघवतस्तत्कल्पनात मनसोवच्छेदकत्वं परिकल्प्या. यत्र तत्कल्पने गौरवात् । संयोगादिकं प्रति तु द्रव्यत्वेनैव हेतुतया पुरुष. यापि तत्संभवात । पुरुषस्य द्रव्यत्वं चानाश्रितत्वतः परिमाणतश्च मि. इमिति । यद्यपि कारणावस्थबुद्धिः पुरुषश्च विभुः । तथापि तयोः स्थागः परिच्छिन्त्रगुणान्तराषच्छेदेन संभवत्येव महदादाखिलपरिणामानां निगुणसंयोग विनानुत्पत्तेः, स च संयोगजः संयोगः न तु कर्मजः, अवयवसंयो | गोवविसंयोगवदवच्छेदकीभूतगुणसंयोगादेव विभुनोः संयोगो.
कीः । भूतलस्य घटसंयोगेन घटालिचाकाशसंयोगोयत्तिवत् वैशेषि. कास्ने विभुनोः संयोगश्च साक्षादेव निषिद्धः न तु संयोगजः संयोग गी। यदि चात्मनः संयोग एव नास्तीति स्वीक्रियेत तर्हि प्रकृतिपुरुषसंयेगात्सृष्टिदियोगतश्च प्रलय इति श्रुतिस्मृतिसूत्राणि नोपपटोरन् । न च शक्तभोग्ययोग्यतैवोपचारिकोत्रसंयोगो वक्तव्यः तस्याः स्वस्वामिभाव. रूपनानादितया कार्यत्वस्याजसानुपपत्तेः । किं च तस्या अविनाशित्वे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org