________________
११८
योगवार्तिकम् ।
यथा रूढिबाधनाच्च । हेयस्य सूत्रं व्याख्याय क्रमप्राप्त हेयहेतुप्रतिपादकं सूत्रमवतारयति । तस्मादादेव हेयमिति ।
द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७ ॥
I
द्रष्टृपदार्थमाह । द्रष्टेति । बुद्धः प्रतिसंवेदनं संवेदनस्य बुद्धिवृत्तेः प्रतिबिम्ब: । प्रतिध्वनिवदयं प्रयोगः । सोस्यास्तीति बुद्धिसाक्षीति फलितार्थः । दृश्यपदार्थमाह । दृश्या बुद्धिसत्त्वेति । बुद्धिसत्त्वस्यापि दृश्यत्वेनात्र विशेषणं विवक्षितं धर्मयइति च बुझारूढस्वेन बुद्धिधर्मत्वमभिप्रेत्येोक्तं न सुबुद्धिकार्यत्वाभिप्रायेण प्रधानादेरपि दृश्यत्वेन तत्त्यागान चित्त्यात् उत्तरसूत्रे प्रधानस्यैव मुख्यतो दृश्यत्ववचनाच्च । यद्यपि बुझारुठो भवन् पुरुषोपि दृश्यः तथापि तस्य निर्दुःखतया तद्दर्शनं न हेयहेतुरित्याशयेनात्र दृश्यमध्ये पुरुषं न गर्णायष्यतीति । तथा च सुखदुःखमोहात्मकदृश्यबत्या बुद्ध्या सह द्रष्टुः साक्षिणः काष्ठाग्निवत् संबन्धो बन्धाख्यः पुरुषस्य दुःखहेतुरिति सूत्रार्थः न तु बुझारूठेदृश्यैर्द्रष्टुजीनरूपः संयोगो हेयहेतुरत्र विवचितः स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोग इत्यागामिसूत्रेणास्य संयोगस्य ज्ञानहेतुत्वेनैव लक्षणीयत्वात् न तु ज्ञानरूपत्वेनेति । अस्माच्च सूत्राद्रुझात्मसंयोगवत् घटाट्यात्मसंयोगोपभोगहेतुबाध्यः । भोक्तृभोग्यसंयोगस्यैव सामान्यतो भोगहेतुतया लाघवेनाचित्यात् । विषयभोगे च बुद्व्यवच्छेदेन विषयसंयोगस्य हेतुत्वात्रातिप्रसङ्ग इति । ग्रस्य च संयोगस्य पुरुषार्थ हेतुरिति वक्तुं सकलपुरुषार्थवत्त्वरूपं स्वत्वं बुढा पुरुषस्य प्रतिपादयति । तदेतदिति । न च तस्य हेतुरविले त्यागामिसूत्रेणैव संयोगस्य कारणं वक्ष्यतइति नास्ति संयोगकारणापेक्षेति वाच्यम् । अविद्याया अपि पुरुषार्थसमाप्तिद्वारैव बन्धहेतुताया वक्ष्यमाणत्वात् इति । तदेतदित्यादेरयमर्थः । तद्बुद्धिसत्त्वं एतज्जगद्दृश्यं यत्रास्तीत्येतद्दृश्यम् अतोऽयस्कान्तवत्संनिधिमात्रेणेोपकारितया स्वयं दृश्यतया च ज्ञानमात्रस्वरूपस्य स्वामिनः पुरुषस्य स्वमात्मीयं भवतीति । ननु बुद्धेः कथमन्यः स्वामी स्वीक्रियते
• संयोग इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org