________________
योगवार्तिकम् ।
११७ रणताबादः स्यात् । तथा च भावकार्यत्वेन विनाशित्वप्रसङ्ग इत्यर्थः । उभ. येति । इत्यतो हानोपादानोभयनिषेधे स्वयंनित्यतावाद एव परिशेषासि. ध्यतीति। अत एतदेव यथोक्तचतुर्व्यहशास्त्रं सम्यगदर्शनं सम्यग्दृश्यतेनेनेति | व्युत्पत्त्येत्यर्थः । इदानों वत्यमाणमत्रगणमवतारयति। तदेतदिति । तदे. | तच्छास्त्रं चतुर्व्यहमितिक्रमेणाभिधीयते प्रतिपादयते सूत्रकारणेत्यर्थः ।
हेयं दुःखमनागतम् ॥ १६ ॥ अनागतमितिविशेषणस्य फलमाह ॥
दुःखमतीतमित्यादिना । अतिवाहितमतिक्रान्तमतः सिद्धतया तदानं न पुरुषार्थः तथा वर्तमानर्माप स्वसत्ताकाले भुज्यतएवेति त्वया वक्तुं न शक्यते । स्वोत्तरोत्पत्रगुणेन च तृतीयक्षणे स्वयमेव भवतीति तद्वानार्थः प्रयासो विफल इत्यर्थः । नन्वेवमनागतस्यापि हेयत्वं न घटते परचित्तदुःखस्य स्वचित्ते स्वत एवाभावात् । स्वचित्तवृत्तेश्चानागत. दुःखस्यावश्यंभावित्वात् । अन्यथा सत्त्वप्रमाणभावादिति चेन्च । स्वचित्तस्यै. |वानागतदुःखस्य कारणोच्छेदेनानुत्पत्त्या हेयत्वातवर्तमानलक्षणमप्राप्तस्याप्यनागतदुःखस्य चित्तनाशेन नाशात्कदाचिद्वर्त्तमानोपि चानागतधर्मानुमानासिति सर्व सर्वात्मकमिति भाष्यकारेण तृतीयपादे सर्वत्रैव परिणामिक्स्तुनि विकारजननशक्तेः कार्यानागतावस्थारूपाया जलभम्यादिदृष्टा
तैः शान्तोदिताव्यपदेश्येत्यादिसूत्रेनुमेयत्वादिति, शेषं पूर्वसूत्रे व्याख्यात. प्रायम् । अस्माच्च सत्रादान्तिकी दुःखनित्तिरेव मोक्ष इति सिद्धम् । अस्मिन्मने दुःखं मुख्यमेव याझं मुख्यस्यैव स्वतो हेयत्वात् । तदानं च समवायसंबन्धेन यद्यपि पुरुषे नित्यसिद्धं तथापिभोग्यतारूपस्वत्वसंबन्धन धनादिनामिव तद्धानं न नित्यसिर्माित । तेन संबन्धेन तद्वानं पुरुषार्थ इत्याशयः । तथाहि वयात तस्मित्रित्ते पुरुषः पुनरिदंतापत्रये न भुड़े रति । तदेतदुक्तं सांख्यन्याययोः त्रिविधदुःखात्यनित्तिरत्यन्तपुरुषार्थ रति । दुःखात्यन्तविमोनोपवर्ग इति च । यत्तु आनन्दं ब्रह्मणो रूपं तच मोके प्रतिष्ठितमित्येवंविधवाक्यजातं तत दुःर्खानवृत्त्याख्यसुखप. रमेव तदानीमभोग्यसुखस्यापुरुषार्थत्वात् । सुखं दुःखसुखात्ययतिपरिभा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org