________________
૧૧૬
योगवार्तिकम् ।
निदानत्वं दुःखं च प्रतिपादितम् इदानों संक्षेपेणेोक्तः समयशास्त्रार्थी वि स्तरेण सूत्रकारः पुनर्वदति सूत्रजातैः शास्त्रसमाप्तिपर्यन्तैः तान्यवतारयतुं तेषां विषयजातमादी सामान्यतः संकलय्य दर्शयति । तदस्येति । ततस्मादस्य दृश्यसामान्यरूपस्य दुःखसमूहस्योत्पत्तेर्बीजं मुख्यनिमित्तकारणमविया प्रथमक्लेशः तस्याश्वाविद्याया अत्यन्तोच्छेदहेतुस्तत्व ज्ञानमतश्चिकित्साशास्त्रवदिदं योगशास्त्रं चतुर्व्यूहं चत्वारो व्यहा हेयादीनां राशयः ( प्रतिपादया अस्मिविति चतुर्व्यूहमित्यर्थः । रोगादितुल्यत्वं प्रतिपादयदेव तेषां व्यूहानां स्वरूपाण्याह । तत्र दुःखेति । संसरत्यमिति संसारीत्र प्रपञ्चः । ननु दुःखमेव हेयमिति वक्ष्यति तत्कथं संसारो हेय उच्यते तत्राह । दुःखबहुल इति । दुःखबहुलत्वात्संसार एव दुःखमित्यर्थः । प्रधा नेति । ननु अविद्या दुःखहेतुरित्युक्त्वात्र संयोगः कथं दुःखहेतुः साध्यतइति चेत्, व्यापारकथनायेत्यवेहि । अविद्या हि बुद्धिपुरुषसंयोगाख्यजन्मद्वारैव दुःखहेतुः कार्यकारणाभेदेन च सैव बुद्धिरत्र प्रधानशब्दार्थः द्रष्टृदृश्ययोः संयोगो हेयहेतुरित्यागामिसूत्रादिति । संयोगस्येति । उक्तसंयोगस्यात्यन्तिकी निवृत्तिरेव हानं दुःखहानमिति यावत् । तच्चरमकारणत्वादित्यर्थः । हाम्रोपाय इति । सम्यग्दर्शनइति प्रकृतिपुरुष विवेकसाक्षात्कारो दु:'खहानोपाये मातापाय इत्यर्थः । असंप्रज्ञातयोगस्तु श्राशुतरमोतार्थमेवापेक्ष्यतइत्याशयः । येन योगो हानोपायतयात्र नोक्तः । ये तु नास्तिका मन्यन्ते संयोगानं न मोक्षः किं तु चित्तरूपस्यात्मनस्त्यागएव मोक्षः । किं चासंसारिविज्ञानसन्तानोच्छेदेन जीवन्मुक्तविज्ञानसन्तानलाभ एव मोक्ष इति तन्मतनिरसनपूर्वकं स्वशास्त्रस्यैव सम्यग्दर्शनत्वमवधारयति । तत्र हीति । तत्र चतुर्व्यूहमध्ये आत्मने हानमुपादानं वा न पुरुषार्थ इत्यर्थः । इतिशब्दस्य हेतुवाद इत्यनन्तरमन्वयः । उक्तार्थे हेतुमाह । हाने तस्येति । तस्य हाने स्वत्यागे हि स्वोच्छेदवचनं प्रसज्येत मुख्यत्यागस्य भेदतन्त्रत्वेनात्मन्य संभवाततच्चायुक्तं स्वनाशस्य लोके पुरुषार्थत्वादर्शनात् स्वीयतयैव सुखदुःखाभावयोः पुरुषार्थत्वादित्यर्थः । स्वयं मियमाणेोपि दुःखहानार्थमेवाप्रवेशा दो प्रवर्त्तते न तु स्वनाशार्थमित्यर्थः । हेतुवादइति । हेतुः स्वरूपस्य स का
1
I
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org