SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ योगवातिकम् । ११५ वृत्तिकाले रजसो वृत्तिरावश्यकीति भाषः । नन्वेक एव प्रत्ययः कथं विरुद्धसुखादित्रयात्मकः स्यात्तत्राह । रूपातिशया इति । बुढे रूपाण्यष्टी भावा धादयो धर्मज्ञानवैराग्यश्वयोधर्माज्ञानावैराग्यानश्वाणि वृत्तयश्च द्रव्यरूपाः शान्तादिनामकाः परिणामास्तेषार्मातशया उत्कर्षा एव परस्परं विरुध्यन्ते यदा धर्म उत्कृष्यते तदा नाधर्म उत्कृष्यते एवं यदा जानादि तदा नाजानादि तथा शान्तायुत्कर्षकाले घोगयुत्कर्षश्च विरुध्यते सामान्यानि त्वपकृष्टानि अतिशयैः सह प्रवर्त्तन्तएवेत्यर्थः । ननु भवतु चित्तस्य सुखात्मकप्रत्यये दुःखत्वं सुखात्मकेषु शब्दादिविषयेषु कुतो दुःखत्वं येन सर्व दुःखं स्यादित्यत आह । एवमेतति । यथा चित्तस्य प्रत्यया एवमेव सर्व पदार्थाः सर्वरूपाः सुखदुःखमोहधर्मका भवन्ति अत एते गुणाः सत्त्वादयो घटादिरूपेणापि परिणताः परस्परसाहित्येनोत्यादित सुखदुःखमोहात्मकप्रत्यया इतीत्यर्थः । नहि विषयगतविशेषं विना विष. यसंबन्धमात्रेण सुखादयात्मकचित्तत्तिरुदेतुमर्हति अव्यवस्थापत्तेः । विषय. मतविशेषस्य चित्तगतसुखादिनियामकत्वं दारूविशेषः सुखादिरूप एव विषयेषु कल्प्यते कार्यानुरूपस्यैव कारणस्याचित्यात । अतो विषयपि सुखादिधर्मान्तरं सुखादिवत्सिध्यतीति भावः । ननु सुखदुःखे रूपादिडषयधर्मी स्यातां मोहस्तु ज्ञानरूपः कथं विषयधर्मः स्याति चेत्र । अतस्मिंस्सदाकारतामात्रस्यैव मोहशब्दार्थत्वात् । सा च विषयेष्वस्ति महदादिविकाराकारतायाः प्रकृतावपारमार्थिकत्वात् । तदुक्तं मोवधर्म । ___जगन्मोहात्मकं विद्धि अव्यक्तंव्यक्तसंज्ञकम् । इति। अपि च सर्वकार्याणां बुढात्मत्रिगुणात्मकमहत्तत्त्वस्य परिणा. मत्वापि मोहवमिति । ननु सर्व यदि सर्वरूपास्तहि सर्व सुखात्मकमपि स्यादिति न दुःखस्यापि हेयत्वं स्थादित्याशडायामाह। मुणप्रधानेति । तथा च दुःखबहुलतया दुःखप्राधान्यात् दुःखमेव सर्वमिदं सुखं वैशेष्यासद्वाद इतिन्याये!त भावः । उपसंहरति। तस्मादिति । तस्मात् परिणामेत्यादि. सौहेतुज्ञानादित्यर्थः । तदेवमत्र धानादेयंत्यिचित्तस्य योगमासनं क्रियायोगमुक्त्वा तत्फलप्रसङ्गेन क्रेशास्तद्वानोपायाश्च तेषां हेयत्वाय दुःख Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy