________________
११४
.
योगवार्तिकम् ।
Stories
-
-
-
नानारूपया चित्तवृत्त्या चित्तनिष्ठया अविदायानुविद्धं लिप्तमिव । अत एव हातव्यापि देहेन्द्रियादावहंकारममकारवन्तमिवेत्यर्थः । आत्म. नोऽविदयास्मितादाभावप्रतिपादनाय दुवेत्यायुक्तम् । शेषमतिरोहितम् । परिणामादिदुःखत्रयस्य साचिनो' ज्ञानेन यत्फलं तदपि प्रसङ्गादाह । तदेर्वामति । सुगमम् । गुणवृत्तिविरोधाच्चेतिहेतुं व्याख्यातुकामो योजति। गुर्णात । गुणानां सत्त्वादीनां ये वृतिशयास्तेषामेव विरोध एकदानवस्थानं न तु न्यनाधिकभावेन वृत्तीनां विरोधोस्ति अतः प्राधान्येन सस्वपरिणामे सुखात्मचित्तरत्तापि तदुपसर्जनतया रजशपरिणामभतं दुःखमप्यल्पमस्त्येवेति दुःखसंभिन्नत्वात्सर्व सुखापि दुःखमेव विवेक ष्टोति तस्य दलस्यार्थः । गुणत्तिविरोधादिति प्रामादिकपाठे तु गुणवृतिशयस्यैव विरोधादित्यर्थः । तदेतढाचष्टे । प्रख्याप्रवृत्तीति । प्रख्या प्रकाशः प्रवृत्तिः क्रिया स्थितिः स्तम्भःधर्मधर्म्यभेदात्तद्रपाः सत्त्वादयो द्धिरूपेण परिणता गुणाः परस्परसाहाय्याः सन्तः शान्त्यादिरूपं प्रत्ययं वृत्तिं त्रिगुणं सुखदुःखमोहवन्तमेवारभन्ते सुखादीनां सत्त्वादिकार्यत्वात् । यः कश्चन प्रत्ययः शान्तो वा घोरो वा मूठो वा भवति स सर्वोऽपि त्रिगुण एव नैकैसमाचगुण इत्यर्थः । शान्तादिपरिभाषात्रयं च सुखदुःखमोहाधिक्यमात्रेति । तथा च सुखवयपि प्रत्यये दुःखमस्त्येव । अत एकप्रत्ययो. पादानत्वेन सुखेऽपि दुःखस्याविभागलक्षणाभेदो हरीतश्यामिव षगणां रसानामिति । प्रत्ययश्च बुद्धवृत्तिः प्रदीपशिखावत् बुद्धःशिखा द्रव्यरूपा भागगुणाभ्यां तत्त्वान्तरं वृत्तिः संबन्धार्थ सर्पतीति सांख्यसवात् । अतः प्रत्ययस्य सुखादिगुणवत्ता घटते इति । ननु सुखकाले सूक्ष्मो दुःखात्मको रजापरिणामो नियमेन भवतीत्यत्र किं मानं तत्राह । चलं ति । प्रदी. पावयवानामिव बुद्धावयवानां गुणानां वृत्तं क्रिया चञ्चला प्रतिक्षणमन्यान्या च भवति न तु नियापारा गुणास्तिष्ठन्ति अतस्तान्त्रिकश्चित्तं विप्रप. रिणाम्यमित्यर्थः । यदपि सर्व जडवस्तु प्रतिक्षणपरिणामि तथापि स्पष्टत्वाभिप्रायेण चिमिति विशेषवचनम् । तथा च चित्तगतस्य सन्यस्य
. 'माचिन' इत्यस्य स्थाने 'भाविन' इति पुस्तकान्तरे।
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org