________________
११३
योगवार्तिकम् । न्यमित्यर्थः । उत्तरं, सर्वस्येति । पूर्ववदेव व्याख्येयम् । पूर्व सुखानुभवो रागानुविदु उक्त इदानी च दुःखानुभवो द्वेषानुविभु उच्यते इत्येव विशेष इति । स कर्माशय इति । संतापकालीनः काशयो द्वेषेणेव रागमोहा. भ्यामपि पूर्ववन्मानसो भवतीत्यर्थः । मनसा परिस्पन्दनं यदुक्तं तत्का. यिकहिंसार्थमेव न तु स्वातन्त्र्यण मानसक्रमाशयहेतुरतो न पौनरुक्त्यम् । यद्यपि तापदुःखतायामपि परिणामदुःखतैवात्र प्रदर्श्यते तथापि पूर्वकाल. उत्तरकाले च सर्वदैव दुःखत्वात् तापजदुःखस्य परिणामदुःखात पृथ निर्देशः । अतः परिणामात दुःखं परिणामदुःखमिति बोध्यम् । क्रमप्राप्त संस्कारदुःखं पृच्छति । का पुरिति । सुखदुःखसंस्कारजन्यदुःखसामान्यमित्यर्थः । उत्तरसुखानुभवादिति । अत्रेयं प्रक्रिया । आदी सुखदुःखानुभवैस्तत्संस्काराशयोनुहद्धसंस्कारस्ततः कालादिविशेषैस्तदुवोधः ततः स्मृतिस्ततो रागद्वेषो तयोश्च प्रवृत्तिः ततश्च पुनःमिति । जानसंस्कारात दुःखं प्रतिपादन धर्माधर्मरूपात कर्मसंस्कारादपि दुःखं प्रति. पादति । एवं कर्मभ्य इति । सुखदुःखरूपे विपाकइत्यन्वयः । नन्धियपि परिणामदुःखतैवेति चेत् सत्यं तथापि संस्कारपरंपराया अनन्तदुःखप्रतिपादनाय गेबिलीवर्दन्यायेनास्य दुःखस्य पृथगुपन्यासो बोध्यः । विवेकिन इतिविशेषणस्याभिप्रायं विस्तरतः सकलदुःखसाधारणमाह । एवमिदमिति । स्वाभाविकतया अनन्तत्वलाभायानादीत्युक्तं स्रोतसो विशेषणम् । विप्रसुतमिति । विस्तीर्णमित्यर्थः । अणः पात्रेणाधारण गोलकेन तुल्यो विद्वानित्युक्तं विवृणोति । यथोति । एतानि भाविदुःखानि इतरमयोगिनं प्रतिपत्तारं शब्दादिना परिणामदुःखजाता. रमप्यविद्वांसमित्यर्थः । इतरं तु वर्तमानकालएष क्लिश्नन्तीत्याह । इतर विति । इतरं तु योगिनं त्रिपर्वाणस्तापा अनु स्वोत्पत्त्यनन्तरमे. व प्लवन्ते व्याप्नुवन्तीत्यन्वयः । न तु पूर्वमिति शेषः । आधिभौतिकाधिदेविकाध्यात्मिकरूपाणि पर्वाणि येषां तापानां ते तथा त्रिपर्वत्वं हेतुग. भविशेषणम् । बाह्येति। बाह्मशब्देनाधिभौतिकाधिदैविकयोर्यहणम् इतरस्य विशेषणान्तरमनादीत्यायनुपातिमित्यन्तम्। अनाविधासनाभिर्विचित्रया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org