________________
११२
योगवार्तिकम् । यचेव प्रकारान्तरेण परिणामदुःखं दर्शयति । या भोष्विति । तत्रादौ पारमार्थिक सुखदुःखे कथति । तदःमित्यन्तेन । अयंभावः । विषयसुखं पारमार्थिकसुखं न भवति दुःखबहुलत्वेन दुःखसंभिवत्वेन च विकिनां निरुपाधिप्रियत्वाभावात् । सुखानुशयी राग इतिसूत्रानुसारेण निरुपधिप्रियत्वस्यैव सुखलक्षणत्वादिति । अतः शान्तिश्चित्तस्य व्यापारोपरमस्तबिमित्तिका दुःखनित्तिरिति यावत् । सैव पारमार्थिक सुखं, सुखं दुःखसुखात्यय इति स्मरणात् । तृष्णादिदुःखासंभिवतया विशेषदर्शिनामपि निरुपधिप्रियत्वाच्च । तस्य च साधनं भोगेष्विन्द्रियाणां वृािरच्छाविच्छेद एव । तथा च श्रुतिः । स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामह तस्येति । स्मृतिश्च । न चाभावयतः शान्तिरशान्तस्य कुतः सुखमिति । अत्र विषयसुखशब्देन चित्तस्य शान्तिनिमित्तकाल्दादोपि गृहीतः तस्यापि दुःखसंभिवत्वेन दुःखत्वस्याविद्यालक्षणे विवक्षितत्वात इति । या लोल्यादिति । या चेन्द्रियाणां लोल्यात् भोगतृष्णातश्चित्तस्यानुपशान्तित्तिचाज्वल्यं तदःखं दुःख बाहुल्यतो विकिभियत्वादित्यर्थः।सुखदुःखयोस्त. साधनयोश्चैवं निर्णये ति विषयसुखस्य तत्साधनभोगस्याविझकमेव सुखत्वं तत्साधनत्वं च लब्धम् । अतश्च विषयसुखस्य परिणामदुःखत्वमित्येतत्मघटनाह। न चेन्द्रियाणामित्यादिना ममइत्यन्तेन । भोगाभ्यासमन्विति । तथा चोक्तं, 'न जातु कामःकामानामुपभोगेन शाम्यति । हविषा कृष्णव. स्मैव भूय एवाभिव? ति । वृश्चिति । वृश्चिकविषभीतः कामादितुददुःखभीतस्तविकृत्याख्यसुखार्थी स्त्रीपुत्रादिभयमहादुःखसर्दष्ट इति दृष्टान्तार्थः । विषयानुवासित इति परिणामदुःखपङ्कममतायां हेतुरुक्तः । विषयसंस्कारसंस्कृत इत्यर्थः । परिणामदुःखमुपसंहरनेव विवेकिन विशेषेणव्यावर्त्यमाह। एषा परिणामेति दुखता दुःखसमूहो जनतेतिवत प्रतिकूला द्वेष्या सुखकालेपि योगिनमेव क्लिश्नाति दुःखाकरोतीत्यर्थः । भूते पश्यन्ति बर्बरा तिन्यायेनायोगिनंपरिणामकालए विषयसुखं दुःखाकरोति योगिर्न तु स्वकाल एवानर्थहेतुत्तादर्शनेन दुःखाकरोतीति भावः । क्रमप्राप्तं ताप. दुःखं व्याख्यातुं पृच्छति । अथ केति । तापो दुःखं कि तापजन्यदुःखसामा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org