________________
योगवार्तिकम् ।
१११ साधनतया सुखसंभिवतया च सुखमेव कथं सर्व न भवतीति चेत् न । दुःखेषु बलवद्वेषस्योक्तत्वात् । सामान्यतो बाहुल्यस्याप्यत्र नियामकत्वाच्च वैशेष्यात्तद्वाद इति न्यायात् । तदुक्तं विष्णुपुराणे । 'कलत्रमित्रपुत्रार्थराहतेत्रधनादिकैः। क्रियते न तथा भरि सुखं पुंसां यथाऽसुखमिति । संसारे च सुखापेक्षया च दुःखबाहुल्यं जैगीषव्यावट्यसंवादे व्यक्तीभविष्यतीति । तत्रपरिणामदुःखहेतुतया सुखस्यापि दुःखतां प्रतिपादति । सर्वस्याय. मिति । उत्सर्गतः सर्वलोकस्य सुखानुभवकाले तत्र सुखे रागो जायते रागाच्च सुखमिदं मे स्थिरं भवतु परमेश्वर मा नत्वित्यादि संकल्पात्मको मानसः काशयो धर्माधर्मरूपो भवति कर्माशयाच्च जन्मादिदुःखमिति प्रागेवोक्तमित्यर्थः । सुखभोगकाले रागजकर्माशयवद्वेषमोहजोपि कर्माशयः परिणामदुःखहेतुरस्तीत्याह । तथा च द्वेष्टीति । तथा च सुखभोगकाले तद्विरोधितया दुःखसाधनानि द्वेष्टि सुखदंशे दुःख मे मा भूयात शत्रुश्च मे नश्यत्वित्यादिरूपेण । तथा दुःखसाधनानि परिहर्त्तमशक्तो मुझति चेत्यतो द्वेषमोहकृतोप्यस्ति कर्माशय इत्यर्थः । रागद्वेषमोहानां च प्रवृत्त्यादिद्वारेणेव सातादप्यदृष्टहेतुत्वमस्तीति । तथा चोमिति। सुखस्य रागानुबद्धत्वं च मयैवोक्तं सुखानुशयी राग इति सूत्रे सुखाभित. स्येत्यादिभाष्येणेत्यर्थः । मानसकर्माशयद्वारा सुखस्य परिणामदुःखत्वं प्रतिपादन शरीरकाशयद्वापि तदाह । नानुपहत्येति । शारीरःकर्माशय इति । मुखभोगकालइति शेषः । एताभ्यां च मानसशारीराभ्यां कर्माशयाभ्यां वाचनिकोपि कर्माशयः शापाशीर्वादज उपलक्षणीयः । सुखस्यापि परिणामदुःखसंबन्धेन दुःखत्वेऽविद्यासूत्रं प्रमाणीकृत्योपपादयति । विषय. सुखं चेत्यादिना ननु सर्वदुःखान्त एवेदं वक्तुमुचितमिति चेत्र । सुखस्याविद्यात्वोपपादनकालण्व दृष्टद्वारापि परिणामदुःखमुपदेष्टुमादावेव विषयसुखस्याविद्यात्वप्रतिपादनात अत्र च वक्ष्यमाणपारमार्थिकसुखव्यावसनाय विषयेत्युक्तम् । अविद्याविषयपदार्थानां बुद्धिमात्रतया सुखमविदो. त्यभेदनिर्देशः । भोगेन सुखं भवतीत्येवंरूपा भोगजदुःखे सुखबद्धिरविमा, सा चाविया न तत्सने विचिता अतोत्र तामवियां प्रतिपाद
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org