________________
११०
योगवार्तिकम् ।
दुःखासंभित्र सुखसत्त्वादित्याशङ्कां परिहरति । यथा चेदमिति । यथा चेदं परिदृश्यमानं रोगादिदुःखं प्रतिकूलात्मकद्वेष्यस्वभावं भवति एवं सर्वत्रैव विषयसुखकालेपि दुःखं योगिनां प्रतिकूलात्मकं तिष्ठतीत्यर्थः । दुःखतत्साधनयोरेकरूपेण ग्रहणाय प्रतिकूलात्मकमित्युक्तम् । मूढानां दुःखसमुद्रमग्नानां सुखनान्तरीयकसूक्ष्मदुःखेषु दृष्टिनास्तीति योगिन इत्युक्तम् । तथा च लेकिकदुःखमिव विषयसुखमपि दुःखशबलतया दुःखत्वेन हेयमेवेति भावः । यद्यपि स्वर्गदा सुखमधिकं तथाप्यल्यमपि दुःखं बलवद्वेषविषयो भवति । बलवत्त्वं च सुखाभिलाषाभिभावकत्वम् । तथाच सांख्यसूत्रम् । यथा दुःखाद् द्वेषः पुरुषस्य न तथा सुखादभिलाष दूति । अस्मिन्सूत्रे सुखदुःखयोरेव कर्मविपाकफलत्ववचनात् जीवन्मक्तानामपि प्रारब्धविपाकेषु सुखदुःखे शारीरे भवत एव अभिमानिके तु न भवतः तत्कारणः क्लेशाभावादिति सिद्धान्तः । तथा च श्रुतिः । 'न ह वै सशरीरस्य प्रियाप्रिययोरपर्हातरस्ति' इति । 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसंजरेदिति च । स्मृतिश्च 'वीतरागभयक्रोधः स्क्विरीधीर्मुनिरुच्यत' इति । सूत्रान्तरमवतारयितुं सुखस्यापि ज्ञानिदृष्ट्या दुःखत्वे हेतुं पृच्छति । कथमिति । तदुपपादकतयेोत्तरसूत्रमवतारयति । तदुपपद्यतइति ।
1
परिणामतापसंस्कारदुःखैर्ग पटत्तिविरोधाच्च दुःख-मेव सर्वं विवेकिनः ॥ १५ ॥
परिणामश्च तापश्च संस्कारश्च तज्जानि दुःखानि तैः संबन्धात् तत्कारणत्वादिति यावत् । तथा गुणवृत्त्यविरोधाच्चार्थतो दुःखसंभिचत्त्वाच्च प्रकृतितत्कार्य सुखादिकं सर्वे दुःखमेव विवेकिनः । सुखदुःखतत्त्वसाक्षात्कारिणो मतमिति वाक्यार्थः । प्रतिपदं च व्याख्या भाष्ये भविष्यति एवकारेण चानुकूलात्मकसुखरूपता व्यवच्छिवा । यदाप्ययोगिनोपि दुःखमेव सर्व तथापि स मूढत्वात्सुखकाले दुःखतया न जानाति योगी तु सुखकालेपि तस्य दुःखात्मकत्वं पश्यतीति प्रतिपादयितुं विवेकिन इत्युक्तम् । ननु सुख
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org