________________
योगवार्तिकम् ।
१०९
स्येति प्रसङ्गादुक्तम् | अत्रानियतवपाकस्य वेति वाशब्दः क्व चित्तिष्ठति स वाशब्दाप्यर्थः । गतित्रयमुपसंहरति । यत्त्विति । उपासीत प्रतीक्षेत विषाकं विपाकारम्भकं स्वाविरुद्धकर्मान्तरमिति शेषः । उपासनस्यावधिमाह । यावदति । अस्य समानर्माविरुद्धं कर्माभिव्यक्ती निमित्तं यावचैतफलोन्मुखीकरोतीत्यर्थः । 'यदाज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरोहंति सप्तमी त्यादिवाक्यानि । तथा कर्मगतदुविज्ञानत्ववचनानि चैता दृशकर्मविषयाण्येवेत्याह । तद्विपाकस्येति । अभिभूतकर्मविपाकस्यैव कुत्र कदा केन निमित्तविशेषेण भविष्यतीत्यवधारयितुमशक्यत्वादियमभिभूतकर्मगतिश्चित्रा अद्भुतरूपा दुर्विज्ञाना वेत्यर्थः । नन्वेवमेकभविकत्वं ततमित्याशङ्कयाह । न चोत्सर्गस्येति । निवृत्तिः क्षतिरित्यर्थः । क्व चिदपवादेप्येकर्भावकत्व मात्सर्गिकमेवानुमन्य मेऽस्माभिरित्यर्थः । न चैवमप्यपवादाशङ्कयाऽनाश्वासतादवस्थ्यम् । अपवादस्य स्वानुष्ठानमान्दा निमित्तकतया तद्वत्वैव शक्यपरिहारत्वादिति । यच्चाधुनिकवेदादिभिरेकभविकमतं व्यभिचारेण दूषितं तदज्ञानादेव औत्सर्गितामात्रस्य भाष्यकृताक्तत्वादिति सर्वं सुस्थम् । इदानीमुक्ताभ्यां कर्मद्विपाकाभ्यां क्लेशानां मुख्यफलमाह ।
ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ १४ ॥
ते विपाकाः सर्वएव समुच्चितसुखदुःखफलकाः समुच्चितपुण्यपापहेतुकत्वादित्यर्थः । अत्र सुखावच्छेदेन पुण्यहेतुका दुःखावच्छेदेन पापहेतुका ति विभज्य प्रतिपादयति । ते जन्मायुरित्यादिना । सुखदुःखयोश्च फलत्वं भोग्यतयेति प्रागेव व्याख्यातं विपाकान्तरगतभोगश्च शब्द | व्याकारवृत्तिरेवेति तस्यापि सुखदुःखहेतुत्वमुपपत्रम्। तदेवमनेकसूत्रैः प्रोक्तमविद्याया दुःखनिदानत्वं न्यायाचार्यैरेकसूत्रेणैवार्थदुक्तं, दुःखजमप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग इति । कारणनाशादेव हि कार्यानुत्पाद इति । तदेवं दुःखनिदानतया क्लेशानां हेतुत्वमुक्तम् । ननु सर्वे विपाकाः कथं सुखदुःखफलकाः ब्रह्मलेोकादा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org