________________
१०८
योगवार्तिकम् । यथा धान्यबीजैः सहोत्पत्रानां तृणबीजानां तैः सहैव कुसलमध्यस्थापि. तानां धान्यबीजेन सहैव वपनप्राप्तिः न स्वातन्त्र्येण तद्वत् परोपसर्जनतयानुष्ठितत्वात न स्वातन्त्रेण फलदानमिति । तथा च प्रधानकातिशयस्य यदा बलवत्तरकमान्तरेणाभिभवस्तदा तदुपसर्जनस्यापि नैकविकत्वमित्याशयः । तृतीयां गतिमाह । नियतविपाकेति । तत्र प्रधानं नाङ्गि किं तु बलवत्तरम् । नियविपाकेन प्रधानकर्मणा विरुद्धफलदेनाभिभूतस्य प्रतिबद्धस्य चिरमवस्थानं द्वित्रिचतुरादिजन्मसु प्रसुप्ततयावस्थानमित्यर्थः। तथा च तस्य नैकविकत्वमित्याशयः। एतास्वाझामुदाहरति । तत्र कृत. स्येति । शुक्लः काशयः धर्मः कृष्णश्चाधर्मः तयोरादोनोत्तरस्य नाशे अतिमुदाहरीत । यत्रेदमिति । पुण्यपापरूपे द्वे कर्मणी पुरुषैर्वेदितव्ये अवधायितव्ये । द्वेद्वेइति वीप्सा पुरुषभेदात कर्मभेदमभिप्रेत्योक्ता । यतः पुण्यकृतः पुण्यनिर्मित एको मुख्यो राशिः समूहस्य समूहिकार्यत्वात पापकस्य पापराशेरपहन्ति चोरस्य निहन्तीतिवत् कर्मणि षष्ठी तस्मात्सुष्टतानि कर्माणि कर्तुमिच्छस्व तच्च कर्म इह लोकएव ते तुभ्यं कवयो वेदयन्ते प्रतिपादयन्ते न तु लोकान्तरइति श्रुत्यर्थः । इच्छस्वेति छान्दसत्वादात्मनेपदम् । द्वितीयां तमुदाहरति । प्रधानेति। यत्र यस्मिविषये पशिखाचार्येणेदं वयमाणमुक्तं तदेव प्रधानकर्मण्याधाय गमममित्यन्वयः । स्यात्स्वल्पइत्यादिवाक्यस्यायमर्थः । हिंसादिजन्यपापेन यागाव्यपर्वस्य स्वल्प एव संकरः स्यात्सोपि सपरिहारः स्वल्पेनैव प्रायश्चिन परिहत्तुं शक्यते यदि च प्रमादतः प्रायश्चित्तं न क्रियते सप्रत्य. वमर्षः । बहुसुखमध्ये अन्यदःखं मर्षणयोग्यं भोजननान्तरीयकदुःखवत् । अतः कुशलस्य कर्मणोपकर्षाय हेयत्वाय नालं न पर्याप्तम् । संकर इति । शेषं करिष्यतीत्यन्तं पञ्चशिखवाक्यं सुगमम् । तृतीयां गतिमुदाहरति । नियतेति । उत्कटत्वरूपं बलवत्त्वमेव प्रधानत्वम् । नन्वेवं कर्मविशेषस्य चिरमवस्थाने सति पाक्तसर्वकर्मणामेकदैव प्रापणादभिव्यक्तिः कथमुप. पटातत्याशयेन शङ्कते । कमिति । सिद्धान्तमाह । अदृष्टेति । कर्मणः कर्मसामान्यस्य समानमेकम् । न त्वदृष्टेति । अदृष्टजन्मवेदनीय.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org