________________
१०७
योगवार्तिकम् । विपाकस्य योनुभवश्चित्तवृत्तिनिवहो जानरूपस्तैर्निष्पादिताभिज्ञानरूपवासनाभिरनादिकालेषु समर्छितमुचितं पुष्टमिति यावत् । अत एव विविधरूपाभिस्ताभिः पटवत सर्वतश्चित्रितमिव चित्तं यन्यिभिरायतं मत्स्यजालमिव वर्तते इत्यत एता वासना अनेकभवपर्विकाः स्वीक्रियन्ते अन्यथा मनुष्ययोन्यनन्तरं देवतिर्यग्योनिभोगानुपपत्तेः मनुष्यजान तद्वासनानुपपत्तेः । एवं भववासनानां च मनुष्यजन्मनैव क्षयादित्यर्थः । अत्र वासनानां जीवमत्स्यबन्धचित्तजालथितत्वेन रूपणात् । भिदाते हृद. यािच्छदान्ते सर्वसंशया इत्यादिश्रुतावपि हृदयन्यिासनैव न त्वाधुनिकल्यिताहंकारादिरिति सिद्धम् । काशयाख्या(माधर्मरूपात्संस्का. राद्वासनानां वैलक्षण्यमाह । ये संस्कारा त । ताश्चानादिकालीना इत्युपसंहारः। औसर्गिक्रमेकर्भावकत्वं क्वचिदपर्वादतु भूमिका रचति । यस्त्वसाविति । नियतः स्वाभाविको विघ्नशन्यः तादृशो विपाको यस्य स तथा । स चावन्ध्यानन्यशेषः कर्मान्तरानभिभतश्च कर्माशयस्तविपरीतश्चानियतविपाक इत्यर्थः । अयं चार्थी नियविपाकविध्यभाष्ये व्यक्तीभविष्यति । तत्रादृष्टजन्मवेदनीयस्य नियतविपाकस्यैवायं नियम इति । एक वकवनियम इत्यर्थः । न त्वदृष्टजन्मवेदनीयस्यानियर्तावपा. कस्य चेति, सुगमम् । दृष्टजन्मवेदनीयस्य भवाहेतुत्वेनैकर्भावकत्वाभावः स्पष्ट एवेत्यतो ऽनियतविपाकस्यैवैकर्भावकत्वनियमाभावे हेतुं पृच्छति । कस्मादिति । उत्तरं, यो ह्यदृष्टोत। दृष्टजन्मवेदनीयस्यैकविकत्वशङ्का नास्तीत्याशयेनैवाह । दृष्टजन्मवेदनीयस्येति । स्वरूपाख्यानमात्रं न तु दृष्टजन्मवेदनीयस्यानियतविपाकत्वं नास्तीत्यादिः कश्चिदाशयः संभवति प्रयोजनाभावात् । यो हि अदृष्टजन्मवेदनयोग्यो नियतविपाभित्रः स त्रिविध इत्यर्थः । यथाश्रुते वयमाणस्याविपक्कनष्टस्य संग्रहानुपपत्तेः । तिसृष्वेकां गतिमाह। कृतस्येति । अपरिपक्वम्यादनफलकस्य विनाश इत्यर्थः । तथा च तस्य नास्त्येकमविकमित्याशयः । द्वितीयामाह । प्रधाति । प्रधानकर्मणा यागादिना सहैव तद. हानां पशुहिंसादीनां स्वफलदानाय च फलप्राप्तिः प्रधानकर्मण्यपगमनं, |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org