________________
योगवार्तिकम् ।
1
प्रथमपक्षेोक्तदोषस्यानाश्वासस्य प्रसङ्ग इत्यर्थः । तदेवं पक्षत्रये दूषिते चतुथेपतं सिद्धान्तयति । तस्मादिति । तस्माज्जन्मारभ्यामरणपर्यन्तकाले विहितनिषिद्धेया धर्माधर्मसमूहो गुणप्रधानभावापच उत्पादितः स मरणकालप्रारब्धकर्मभोगसमाया लब्धावसरः सचेकप्रयत्नेन मिलित्वा स्वफलदानार्थं मरणं प्रसाध्य संमूर्च्छितः प्रवृद्धवेग एकमेव जन्म गुणप्रधानभावापत्रः स्वफलयेोग्यं करोति नानेकमित्यर्थः । मरणं च लिङ्गदेहस्य स्थूलदेहादुत्क्रमणं न तु नाशो गमनश्रुतेः, नाशस्य भोगाहेतुतया कर्म ज न्यत्वस्वाभाविकत्वयोर्भाष्ये वक्ष्यमाणत्वाच्च । ननु केवलजन्मना किं प्रयो. जनं तत्राह । तच्च जन्मेति । आयुषोऽपि न स्वतः पुरुषार्थत्वमतश्राह । तस्मिवायुषीति । प्रसाविति । जन्म हेतुरित्यर्थः । अन्यो हि ह्येकमात्रविपाको भवतीति वक्ष्यति । औत्सर्गिकमुपसंहरति । अत इति । एको भव ऽस्मिन्कार्यतयास्तीति एकभविकः कर्माशयसमूहः । पूर्वाचार्यैरुक्त इत्यर्थः । ऐकभविक इति पाठे त्वेकभविकं कर्म तज्जन्यादृष्टं चैकभविकमित्यर्थः । नन्वेवं स्वर्गनारकिणां कथं पुनर्जन्मादि स्यात् स्वर्गादिशरीरे धर्मादानुत्पत्तेः प्राचीन सर्वकर्मणां च तत्रैव समापनादिति । चेत्, न । स्वर्गदिजनककर्मणामेव ब्राह्मणस्यावरा दियोनिलाभपर्यन्तफलश्रवणात् शास्त्रानुक्तकालविशेषस्यैव फलस्यैकभविकत्वनियमादिति । त्रिविपाकं कर्मेत्त्वा एकद्विविपाके कर्मणी प्राह । दृष्टजन्मेति । नन्दीश्वरवचहुषवच्चेति दृष्टान्तद्वयं पूर्वोपच्या सक्रमेणेोक्तम् अत्र तु व्युत्क्रमेण योजनीयं प्रतिज्ञाक्रमेणोदाहरणौचित्यात् । नन्दीश्वरस्य ह्यष्टचत्वायुर्मनुष्यजन्मनः पुण्यविशेषेणायुर्भागरूपं विपाकद्वयं देवसंबन्ध्युत्पत्त्रं नहुषस्य चेन्द्रत्वसंपादककर्मणैव दीर्घायुष्टस्य लाभात् पापविशेषेण केवलं सर्पभागरूप एक एव विपाक उत्पन्न इति । तत्र च नन्दीश्वर नहुषयोर्मनुष्यशरीरस्यैव वार्द्धकादिवदेवसर्परूप परिणामान्तरात् न जन्मान्तरमपूर्वदेहानुत्पादादिति । नन्वेवं कर्माशयवज् ज्ञानवासनाप्येकभविक्येव स्यात् तथा च तासामनादित्वं चाशिषो नित्यत्वादित्यागामिसूत्रे वासनानामनादित्ववचनं नोपपयेतेत्याशङ्कां परिहरति । क्लेशकर्मेति । क्लेशकर्मणो
1
१०६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org