________________
MARRINGTAPAIRPORANE
योगवार्तिकम् ।
१०५ दिति । क्लेशानां कर्माशयसहकारित्वं ज्ञानादग्धकर्माशयस्यैव विपाकार. म्भहेतुत्वं च दृष्टान्तेन प्रतिपादति । यथा तुति । क्लेशावनद्ध इति । ज्ञा. नादग्धबीजभाव इयपि बोध्यम् । दृष्टान्तानुसारात नप्रसंख्यानदग्धबीजभावो वेत्युत्तरवाक्याच्च । नापनीतक्लेश इति । सविपाकगोचरलेशशून्य इत्यर्थः । अतो न प्रसंख्यानदग्धबीजभावो वेत्यस्य क्लेशसामान्याभावकालीनः काशयो ऽसंकीर्णादाहरणमिति । जात्यायुभीमा इति व्याचष्टे । स चविपाक इति । कर्मणो जन्मकारणत्वे कं चन विशेषमवधारयितुमाह । तदं विचार्यतइति । तत्र जन्मलतविपाके, अस्य च विचारस्य प्रयोजनं स्वयमेव वयति । तत्र चत्वारो विकल्पाः कर्मेकत्वपतं ध्रुवं कृत्वा जन्मकत्वानेकत्वरूपं प्रथमं विकल्पद्वयं कर्मानेकत्वं च ध्रुवं कृत्वा जन्मा. नेकत्वैकत्वरूपमपरं विकल्पद्वर्यामति । आतिपतीति । फलदानार्थमत्यादयतीत्यर्थः । किमनेकर्माित । अनेक कर्म मिलित्वा अनेक जन्म करोतीत्यर्थः । श्रादयविकल्पे तु न मिलनमुक्तमिति ततो विशेषः । लगानं विकल्पमपाकात । न तावदेर्कामति । पृच्छति । कस्मादिति । उत्ताम् । अनादीति । प्रचितस्य संचितस्य अशिष्ठस्य अभुक्तस्य । अविशिइस्येतिपाठे अन्योन्यमभुक्तत्वेनाविशिष्टस्येत्यर्थः । सांप्रतिकस्यैहिकस्य, लक्रमानियमादनाश्वास इति यथोक्तानामनन्तकर्मणां मध्ये किं कर्म यमं फलं दास्यति किं वा पश्चादितिफलक्रमे नियमो नास्ति अतो लोकानां पुण्यानुष्ठाने फलामाश्वासः स्यात् । भाव्यनन्तकालमध्ये भाविपापादिनानुष्ठीयमानकर्मणो विनाशसंभवात झटिति भोगकामनयैव कर्मानुष्ठानाच्चेत्यर्थः । द्वितीयं विकल्यं निराकरोति । न चैकमिति । अनेकजन्मसु किंचित्कृत्वा फलदानायानेकजन्मनः कारणमे. बैंक कर्मपि न भवतीत्यर्थः । अत्र हेतुं पृच्छति । कस्मादिति । मातरम्, अनेविति । अनेकेषु जन्मसु क्रियमाणं कमैकैकं प्रत्येकमे. नेस्यासंख्यजन्मनः कारणम् अतोवशिष्टस्य तदितरस्य तद्विरुदफससा कर्मण इति यादिति । तृतीयं विकल्पं निराकरोति । न चाकर्मेति । पृच्छति । कस्मादिति । उत्तरम, तदनेकमिति । तथा चेति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org