________________
१०४
योगवार्तिकम् ।
1
णी समन्वारभेते पूर्वप्रज्ञा चे”ति च । तथा गीतापि । 'पुरुष: प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गस्य सदसयोनिजन्म स्वि'ति । न्यायसूत्रं च । 'वीतरागजन्मादर्शनात्' । नरकादिष्वपि रागादानुसारेणैव विपाको भवति । निषिद्धस्त्यादिसक्तानामेव तप्तले | हमयनारीसमा लिङ्गनादिफलश्रवणात्, अतः क्कशोपि स्वातन्त्र्येण विपाकारम्भे हेतुः, ज्ञानोत्तरं चारब्धविपाकः समाप्यतएव न त्वारभ्यतइति न तत्र शापेक्षेति । अपि चात्रैव सूत्रे भाष्यकृता कर्माशयस्यापि प्रसंख्यानदग्धबीजभावस्य वक्तव्यतया कर्माशयस्य दाह एव ज्ञानेन क्रियते न तु नाश इत्यव - धार्यते । स च क्लेशाख्य सहकार्युच्छेद एव । ज्ञानस्य हि व्यापारद्वयं क्लेशाख्य हेतूच्छेदेन कर्मानुत्पाद: प्राचीनकर्मणां दाहश्च न तु कर्मनाशः प्रारब्धकर्मणेोपि नाशप्रसङ्गात् । न च प्रारब्धातिरिक्तकर्मत्वेन ज्ञाननाश्यता कल्प्येति वाच्यम् । लाघवेन क्लेशस्यैव विपाकारम्भ हेतुत्वकल्पनाचित्यात् । प्रारब्धफलकस्य कर्मणा बीजशक्तिनाशेपि फलं समाः प्यतएव बीजदाहेप्युत्पत्राङ्कुरवदिति । अत एव ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः । योगाग्निदग्धकर्मचयोचिरादिति गीताविष्णपुराणयेोज्ञानयोगाभ्यां कर्मणेा दाह एव श्रूयते न तु नाश इति । तदेकवाक्यतया च तीयन्ते चास्य कर्मणीत्यादिवाक्यान्यपि दाहपराण्येब | तथा तदधिगम उत्तरपूर्वघयोर श्लेषविनाशाविति ब्रह्मसूत्रेपि विनाश शब्दो निष्फलतार्थक एव मन्तव्यः । कर्माशयनाशस्तु ज्ञानवासनानाशवत् चित्तनाशादेव भवति धर्मिनाशस्य धर्मनाशहेतुताया: सामान्यत एव कृप्तत्वादिति । तस्माज्ज्ञानेन क्लेशाख्यहेतुदाहात् कर्मानुत्पादवत् प्राचीनकर्म विपाकानारम्भपि भवति शाख्यदृष्टसहकार्यभावात् तो ज्ञानात् क्लेशाख्यसहकार्युच्छेद एव कर्मदाह इति सर्वं सुस्थम् । तदेतत्सर्वमभिप्रेत्य भाष्यकारः सूत्रमिदं व्याचष्टे । सत्सु क्लेशेष्विति । विपाकारम्भीति । प्रारम्भशब्द ज्जीवन्मुक्तस्यारब्धविपाकेषु न क्लेशाः कारणमित्युक्तं तस्य ह्यारब्ध एव विपाकः कर्मणा समाप्यतइति । एतेन जीवन्मुक्तस्य भोगार्थमवियालेशकल्पनमज्ञानामुपेक्षणीयम् आरब्धविपाकक्लेशानामहेतुत्वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org