________________
१०३
योगवार्तिकम् । ष्टनियामकत्वं कौम दर्शितम्। 'रागद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः। कार्य सस्य भवेदोषः पुण्यापुण्यमिति श्रुतिः । तदुशादेव सर्वेषां सर्वदेहसमुद्धब' इति । दृष्टजन्मवेदनीयमुदाहरति । तत्र तीव्रति । सत्य इति । दह जन्मनीत्यर्थः। परिपच्यते कालेन परमेश्वरेण वा फलोपहितीक्रियते । अदृष्टजन्मवेदनीयं पुण्यमुदाहृत्य दृष्टजन्मवेदनीयं पापमुदाहरति । तति । य इत्यनुषज्यते। यथाक्रममुक्तयोः पुण्यपापयोर्दृष्टान्तावाह । यथा नन्दीखर इति । अदृष्टजन्मवेदनीयं च कर्म प्रसिद्धत्वानोदाहृतम् । प्रसङ्गतो यातरेकावप्युदाहर्रात । तत्र नारकाणार्माित । नारकिपुरुषाणां धर्मादानुत्पत्तेः । ननु वर्गिणामपि कर्म नोत्पातइति कथं नारकिवचनमात्रमिति चेत् न । स्वर्गिणां भारतवर्षमागत्य लीलामानुपविग्रहेण प्रयागादी कर्मानुष्ठानस्य तत्फलस्य च श्रवणादिति। शेषं सुगमम् । न केवलं कर्माशयेवेव क्लेशः कारणमपि तु तत्फलेोप अतस्तान्यपि दुःखोत्पादने क्लेशानां साक्षात्परंपरया द्वाराणीत्याह।
सति मूले तहिपाको जात्यायु गाः ॥ १३ ॥
क्लेशरूपे काशयस्य मले सत्येव कर्माशयस्य विपाकः फलं भवति मेशाश्च वासनारूपा एव जन्मादिविपाककारणम् । विपाकस्य स्वरूपमाह। जात्यायुभीगा इति । जातिर्जन्म आयुर्जीवनकालः भोगः सुखदुःखात्म कशब्दादिवृत्तिरित्यर्थः । न तु सुखादिसाक्षात्कार एवात्र भोगः, तेल्हादपरितापफला इत्युत्तरसूत्रे तस्य विपाकजन्यतावचनात् इति । स्यादेतत् । श्लेशानां कर्मसहकारित्वे प्रमाणं नास्ति । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेर्जुनेत्यादिवाक्येभ्यो हि ज्ञानस्य क्लेशतयहेतुत्ववत् कर्मक्षयहेतुत्व. मपि सिद्धम् । अतः क्लेशाभावकाले काभावस्यावश्यकत्वात्तत एव विपाका. भावः स्यादिति । अत्रोच्यते । विविधयोनिहेतुशुभाशुभकर्मसु सत्सु यत्र रागादिरन्तकाले उद्बुद्धस्तिष्ठति मरणोत्तरं तामेव योनि जीवः प्राप्नोति नेतरामित्यन्वयातरकाभ्यां कर्मवद्रागादिदोषोपि विपाकहेतुः। तथा च श्रुतिः "तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्रनिषिक्तमस्ये"ति। "तं विद्याकर्म
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org