________________
योगवार्तिकम् ।
ध्यानदेयास्तहृत्तयः ॥ ११ ॥
क्लेशानामिति । स्थितानां बीजभावोपगतानां क्लेशानां या वृत्तयः स्थला अभिव्यक्तावस्थाः ताः प्रथमं क्रियायेोगेनाल्पीकृताः सत्यः प्रसंख्यानेन समाधिजप्रज्ञारूपेण ध्यानेन ध्यानकार्येण हातव्याः प्रतिबद्धोत्पत्तिकाः कर्त्तव्याः यावत्सूक्ष्मीकृताः अस्यैव विवरणं दावदग्धबीजकल्पा भवन्तीत्यर्थः । ततश्च प्रतिप्रसवहेया इति पूर्वसूत्रेणैवे क्तमिति । तनूकरणादिषु त्रिषु सुकरत्वदुष्करत्वरूपं विशेषं दृष्टान्तेनाह । यथा वस्त्राणामिति । निर्धयते वाताहत्या निराक्रियते । यत्नेन पाषाणप्रहारादिना, उपायेन क्षारसंयोगादिना । अत्रेदं दृष्टान्ते साधनत्रयं दाष्टन्तिकेपि साधनत्रित्वाभिप्रायेर्णोक्तम्। स्वल्पेति । स्वल्पः क्रियायोगः प्रतिपक्षस्तनुता हेतुर्यासां स्थूलानामतनूकृतानां तास्तथा महानतिदुष्करः प्रसंख्यानानिरसंप्रज्ञातयोग साध्यचितनाशश्च प्रतिपत्ती दाहकनाशको यासामिति महाप्रतिपक्षा इत्यर्थः । अनेन सूत्रेण जीवन्मुक्तानां वृत्तिरूपोप्यविद्यालेशस्तिष्ठति इत्यभ्युपगम आधुनिकानां वेदान्तिब्रुवाणामपि सिद्धान्त इति निर्णेयम् । तथा सति स्थूलानामपि प्रतिप्रसवहेयत्वापत्तेरिति । इदानीं क्लेशाः किमर्थं हेया इत्याकाङ्क्षायां क्लेशानां परंपरया दुःखनिदानत्वं सूत्रत्रयेण वक्तव्यं क्लेशानां दुःखात्पादने साचाद्वारमाह ।
१०२
शमूलः कर्माशयेो दृष्टादृष्टजन्मवेदनीयः ॥ १२ ॥ दृष्टादृष्टजन्मनी वर्त्तमानभविष्यती वेदनं भोगः कर्माशया धर्मधर्मे तौ च दुष्टजन्मभोग्यो वा अदृष्टजन्मभोग्यौ वा उभयथैव क्लेश मलकौ । क्लेशे सत्येव भवत इत्यर्थः । 'यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमान् लोकाच हन्ति न निबध्यते' इत्यादिवाक्यशतेभ्य इति भावः । यथा वाधिकारिविशेषतया क्लेशानां धर्मादिजनकत्वं शौचा दिवत् एवं तज्जनककर्मादिषु रागादिरूपैः प्रवर्त्तनादपीत्यपि बोध्यम् । क्लेशमूलकत्वं विवृणोति । तत्रेति । तत्र चित्ते लोभादिरूपदोषत्रयसत्त्वे एव पुण्यपावरूपा कर्माशयौ भवत इत्यर्थः । रागद्वेषमोहाख्यानां च दोषाणाम.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org