________________
योगवार्तिकम् ।
૧૦૧ न्धकवादिति चेत्र । विशेषदर्शने सत्यपीदृगिच्छादृष्ट्या फलबलेन तादृशसंस्कारस्य उत्तेजकत्वात् । एतेन यदाधुनिकवेदान्तिबुवा आहुरात्मा सुखस्वरूपः निरूपधियथोक्तच्छाविषयत्वात् बाह्ममुखदित्यनुमानेनात्मनः सुखरूपता सिध्यतीति, तदप्यपास्तम् । पूर्वपूर्वजन्मसु यस्वासो जातस्तेन तदा जातायास्तद्वासनातोनिरुपधीच्छासंभवात् । अन्यथाप्यात्मत्वेनैव प्रि. यत्वकल्पनौचित्याच्चेति । क्रियायोगः लेशतनकरणार्थ इत्युक्तं तत्र लेश तनूकरणस्य फलं वक्तुमाह ।
ते प्रतिप्रसवहेया: सूक्ष्माः ॥ १० ॥ प्रसवाद्विरुद्धः प्रतिप्रसवः प्रलयः। तथा च प्रतिप्रसवेन चित्तस्य प्रलयेन सत्मा दग्धबीजभावाः केशा हेया इत्यर्थः । तदेव भाष्यकार आह । ते पञ्चति । पञ्चमध्ये अभिनिवेशो मरणातिरिक्त एव योगिनो दग्धबीजकल्यो भवतीत्युक्तमेव । ननु तनकरणं दग्धबीजभावः प्रलयश्चेत्येव क्रमः । अतो दग्धबीजभावप्रतिपादकमुत्तरसूत्रमेवादावुचितमिति चेत्र । मुख्यफल. तया प्रलयस्यात्रादौ निर्वचनात् तत्र द्वाराकाइया च दग्धबीजभावस्य पश्चा. दृश्यमाणत्वादिति । ननु लेशतद्वासनयोर्वक्ष्यमाणप्रसंख्यानेनैव नाशोस्तु किमयं तत्र चित्तनाशोपेक्ष्यतइति चेत्र । ज्ञानदग्धैस्तथा शैरित्यादिशास्त्रप्रामाण्येन ज्ञानाग्निदाहस्यैव सिद्धेनं तु तवाशस्य । युक्तिश्चात्र प्रागेवोक्ता कारणेषु कार्यशक्तीवद्रव्यभावित्वदर्शनर्माित । तथा च योगाग्निना व्यु. त्यानसंस्कारदाहवज्ञानाग्निनापि क्वेशसंस्कारयोदाह एव भवति न तु तवाशः । नन्वेवमपि क्लेशसंस्कारदाहेनैव संसारात्यन्तोच्छेदसंभवे संस्कारसहितचित्तनाशः किमिति मोतायापेक्ष्यतइति चेन्मैवम् । योगिसंकल्पेन दृष्टबीजादिवत दग्धबीजक्तिकादपि कदाचित्युनरङ्कुरोत्पत्त्यापत्तेरिति । तनकरणस्य द्वारं दग्घबीजभावं प्रतिपादयन् सूत्रं पूयित्वा पठति। स्थिता. नामिति । तदृत्तय इति । समासान्तर्गततच्छब्दस्याथैः क्लेशैः सहान्वयः । स्थितानामित्यस्य विवरणं बीजभावोपगतानामिति । एतच्च सूत्रेण सह व्याख्यास्यामः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org