________________
१००
योगार्तिकम् । तादृशाशीर्दर्शनात् । धनं मे भा नश्यतु सदैव भूयादिति । अत एव तयाशिषा पूर्वजन्मनि मरणदुःखानुभवस्तत्कारणतया प्रतीयते अनुमीयत: इत्यर्थः । एतेन जीवस्यानादित्वमपि प्रसङ्गात्साधितं, जन्म तु कूटस्थचिन्मात्रस्य तैस्तैर्दैहेन्द्रियबुद्धिवेदनादिभिरायः संबन्ध त । यत्तु न जायते न मियतइत्यादिवाक्यं तदात्मन उत्तिविनाशावेतवहारिव प्रतिषेधतीति बोध्यम् । ननु इह जन्मन्येवानुमानादिना मरणदुःखानुभवेनाभिनिवेशाख्यं भयं भवतु किमर्थ पूर्वजन्मानुभवः कल्प्यतत्याशङ्कामपाकरोति । स चायति । स चायमुक्ताशीरूपोभिनिवेशः स्वरसवाही स्वाभा. विकोत्यन्तमूठस्य कृमेपि मरणदुःखप्रत्यक्षादिभिरसंभाव्या मरणत्रास उच्छेददृष्टयात्मक उच्छेदष्टिकार्यः पूर्वजन्मानुभूतं मरणदुःखमनुमापति । पूर्वजन्मनि मरणदुःखानुभवमनुमापर्यात । यदनुभवोत्येन मरणत्रासेन ज. नितया वासनयेह जन्ममरणत्रासो भवतीति शेषः । मरणभयस्य द्वेषरूपस्यापि संस्कारजनकत्वं निरोधस्येवागत्या कल्प्यतइति । अभिनिवेशं तत्कारणं च व्याख्याय सूत्रवाक्यार्थ व्याचष्टे । यथा चेत्यादिना रूढइत्यन्तेन । विज्ञातेति । विज्ञातः संप्रज्ञातयोगेन साक्षात्कृतः प्रपञ्चस्य पूर्वान्तोपरान्तश्चा. दान्ती येन स तथा तस्य तत्त्वज्ञस्येत्यर्थः । कुशलाकुशलयोरित वय माणत्वात् इति । एतेनादयन्तयोरशिष्यमाणमेव वस्तु प्रपञ्चस्य तत्त्वं तच्च परं ब्रह्म विकारस्तु मध्ये वाचारम्भणमामित्यस्माकर्माप सिद्धान्त इति सिद्धम् । तथा चोक्तं मोक्षधपि। __अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे ।
अन्तमाप्ति सुखामाहुर्दुःखमन्तरमेतयोः । इति । सुखामाहुरित्यार्षम् । सुखायाहुरिति पाठस्तु साधुः। ननु तत्त्वजस्याविनास्मितादाभावात्कथं यथोक्ताशीरित्याशयेनाशङ्कते । कस्मा. ति । संस्कारमात्रजन्यत्वेन परिहरति । समाना हीति । इयं वासना एतदाशीर्हतुवासनेत्यर्थः । इयं च बलवत्तरा वासना चित्तेन सह नश्यतएव ज्ञानेन न दह्मतइत्येतत् अवियादिसंस्कारेभ्यो विशेषः । ननु कुशलस्यात्मनित्यत्वनिश्चयात्कथं मानभवं भूयासमितीच्छा स्यात् सिद्धत्वज्ञानस्य प्रतिब
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org