________________
योगवार्तिकम् । राहेतुत्वाति न तस्यामतिव्याप्तिः। रागस्य कारणं वत्रिममेवार्थ भाष्यकारोण्याह। सुखाभिज्ञस्येति । सुखामिजस्य वा सुखानुस्मृतिपर्वको वेत्यर्थः । तेन सुखसाक्षात्कारतः सुखस्मृतितश्च रागो भवतीति रागस्य कारणमुक्तम् । पर्याय रागशब्दार्थमवधारयति । गर्ध इत्यादिना । रागप्रतिघातोत्यतया रागस्य पश्चाट्टेषं लतति ।
- दुःखानुशयी देषः ॥ ८ ॥ सर्व पूर्ववत् । प्रतिहन्त्यदेजयतीति प्रतिघः । अत्र जिघांसेति वचनाद्वेषोपीच्छाविशेष एवेत्याशयः । द्वेषमूलकतया द्वेषस्य पश्चादभिनिवेशं लक्षात ।
खरसवाही विदुषोपि तथारूढोभिनिवेश: ॥ ८ ॥
स्वरसेन संस्कारमात्रेण वहतीति स्वरसवाही। अपिशब्दसमुच्चितविद्वांसं तथति तच्छब्दः परामृति । रूढः प्रसिद्धः, तथा च यथा अविद्वज्जनस्य तथा विदुषोपि स्वरसवाहित्वहेतुना यः श्लेशोस्ति प्रसिद्धः सोभिनिवेश इत्यर्थः । अविदादयस्तु विषि न सन्तीति न तेष्वतिव्याप्तिः । नन्वेवं कथं पूर्वोक्तमविदयाव्याप्तत्वमभिनिवेशस्य घटताम् । अवियानाशयभिनिवेशसत्त्वादिति चेत्र । संस्कारहेतुतावच्छेदकरूपेणैव वि. पर्ययव्याप्तत्वस्य विवक्षितत्वात् संस्कारहेतुत्वं मरणत्रासातिरिक्तभयत्वेनैव फलबलादिति । अयं च क्लेशो भयाख्यः इति वात भाष्यकारः । अभिनिवेशस्यात्यन्तदुरन्तत्वातपादनार्यावद्वदपरिहार्यत्वमुखेन लक्षणं कृतं भवसामान्यमेव तु अभिनिवेशो रागादिदिह वितित इति । तत्रादौ भाष्यकारोऽभिनिवेशस्य स्वरूपमाह । सर्वस्यति । सर्वस्य विदुषोऽविदुष|श्चयमात्मन्याशीः प्रार्थना इच्छाविशेषः सदैव भवति । तामेवाह । मान भूवम् इति।माहमभावी भूवं भूयासं जीव्यासमित्येवंरूपेत्यर्थः । इयमाशीरेव चासो भयमित्युच्यतइति भावः। विदुषोप्यपरिहार्यत्वमुपपार्दायतुं यथोक्त. मभिनिवेशस्य कारणमवधारर्यात। न चेति । अननुभूतो मरणस्य धर्मा दुःखानिशयो येन तस्ययमाशीन संभवति धनादिनाशजन्यदुःखजस्यैव धनादिषु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org