SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ योगवार्तिकम् । तस्मात्तत्संयोगादचेतनं चेतनादिव लिङ्गम् । गुणकर्तृत्वे च तथा कर्त्तव भवत्युदासीनः ॥ इति। ननु बुद्धिपुरुषयोरन्योन्यारोपेणैवाहं दुःखीत्यादिव्यवहारोपपतावेकात्मतारोपे किं प्रमाणं, परस्परारोपश्च व्यक्त्यारभेदयहं विनापि रङ्गरजतयोरिव संभवत्येव अग्निलोहयोर्दूरस्थवनस्पत्याश्च पुनः स्फुटैक्यप्रत्ययदर्शनादभेदारोपः सिति । आत्मबुद्मोस्तु परमसत्मतया नास्ति स्फटमै. क्यप्रत्यक्षमिति तत्राह । भोक्तभोग्यशक्त्योरिति । अत्यन्तविविक्तयोरित्यत्र हेतुरत्यन्तासंकीर्णयोरत्यन्तविप्रकृष्टधर्मकयोरिति। भोग्यभोक्तत्वे एव स्फु. टे वैधये अन्यथा कर्मकर्तृविरोधादिति भावः । एवंभूतयोभोक्तभोग्ययोः पुरुषबयोविभागप्राप्ताविव सत्यामेकत्वप्रत्यये सत्येव भोगः संभवति भेदयहे तु तयोः कैवल्यमन्यायवियोग एव भवति परवैराग्यादित्यतः कथं भोगः स्यादित्यर्थः । तथा च भोगान्यथानुपपत्तिरेकात्मतारोपे प्रमाणमित्याशयः । अत एव सत्त्वपुरुषयोः प्रत्ययाविशेषो भोग इति सूत्रकृदि. ति। यो ऽहं सुखी सोऽहं तदनुभवितेत्येकाकारतैव च बुद्ध्यात्मप्रत्यययोरविशेषादयस्मिन्सत्येव च लोके भोगव्यवहार इति । जीवन्मुक्तस्य च गौण एव भोगः सुखादिसाक्षात्कारमात्ररूप इति वक्ष्यामः । इदं चोपलक्षणं सुखदुःखज्ञानाददाश्रयोहम एक एवेति प्रत्ययोप्येकात्मतारोपे प्रमाणं बोध्यम्। अस्मितायाः स्वरूपे अविद्याजन्यत्वे च पञ्चशिखाचार्यवाक्यं प्रमाणात । तथा चोक्तमिति । परमार्थतो बुद्धितः परं पृथक्कृतं पुरुषं बुद्धेराकारशील. विद्यादिभिर्विविक्तमसंस्पृष्टमपश्यविवेकी जनस्तत्र बुझाकारादिषु आत्मबुद्धिमस्मितां कुर्यात् । शान्तायाकारोस्मि जायदादिशीलोस्मि विदयादिमानस्मि इत्येवंरूपां, मोहेन पूर्वसूत्रोक्ताविशयेत्यर्थः। अस्मितां लयित्वा तत्कार्य रागं लतति । ___ सुखानुशयी रागः ॥ ७ ॥ सुखानुशयी सुखतत्साधनमात्रविषयको यः क्लेशः स राग इत्यर्थः । मानपदाविदादिव्यावृत्तिर्जीवन्मुक्तेच्छाव्यक्ते राग एव न भवति संसा. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004031
Book TitleYogvarttikam
Original Sutra AuthorN/A
AuthorVigyanbhikshu, Ramkrushna Shastri, Keshav Shastri
PublisherVigyanbhikshu Ramkrushna Shastri Keshav Shastri
Publication Year
Total Pages330
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy