________________
योगवार्तिकम् । मित्रं यस्मादिति व्युत्पत्त्या केवलमित्रमित्यर्थः । किं तु तद्विरुदो मित्रविरुद्ध इत्यर्थः । तथा च निरूढलक्षणेति भावः । किंतु देश एवेति । विपुलो देविशेषो ऽगोष्पद इति परिभाषितः । प्रमाणं विदया। ज्ञानान्तमिति। एते. नाविद्याशब्दस्य ज्ञानविशेष रूढत्वावधारणादाधुनिकवेदान्तिनामन्यार्थत्वोपवर्णनं स्वातन्त्र्यमात्रमवधेयम् । काचित्कस्तु त्रिगुणात्मकप्रकृतावविद्याशब्दो गौणः । अविद्याधर्मकत्वात अविनयात्मन्यारोपितत्वात जडत्वाच्च । विद्याविद्याशब्दयोजानाजानवाचित्वेनात्मानात्मवाचित्वा. दिति । अस्मिंश्च दर्शने सांख्यानामिवाविवेको नाविद्याशब्दार्थः किं तु वैशेषिकादिवत् विशिष्ट ज्ञानमेवेति सूत्रभाष्याभ्यामवगन्तव्यम् । अविद्यानन्तरं तत्कार्यमस्मितां लक्षयति।
दृग्दर्शनशक्त्यारेकात्मतेवास्मिता ॥ ६॥ .. दृग द्रष्टा दृश्यतेनेनेति दर्शनं करणं बुद्धिः प्रलयादी फलोपधानं नास्तीति शक्तियहणं तयोरेकात्मतेव स्वरूपतो धर्मतश्चात्यन्तमेकाकारो विपर्ययोऽस्मिताऽहंकार इत्यर्थः। एतदेव शब्दान्तरेणाह। पुरुषइत्यादिना। एकस्वरूपापत्तिरिव एकाकारो यः क्लेश: सोस्मितोच्यतत्यन्वयः । अविद्यातश्चास्मिताया अयं भेदो यद्वयादावादौ या सामान्यतोहंद्धिरथ च भेदाभेदेनाप्युपपद्यते अत्यन्ताभेदायहणात् सैवाविया न तु तदुत्तरकालीनः पुरुषे बुयादिगुणदोषारोप ईश्वरोहमहं भोगीत्यादिरूपः न वा दूरस्थ. धनस्पत्यारिव तयोरत्यन्तमेकताधमः । अस्मिता तु एतदुभयरूपिणीति, भ्रम. त्वाविशेषेपि कार्यकारणरूपावान्तर्राविशेषाविदयास्मितयोर्भदेनोपन्यास इति । अनयोश्च कार्यकारणभावो लोकानुसारेणावधार्यते, लोके यादौ कलत्रपुत्रभृत्यादिषु आत्मभावो जायते पश्चादेव तु तेषां सुखदुःखादिकमात्मन्यभिमन्यते तथादौ जलादिषु उपाधिषु प्रतिबिम्बादिरूपेण चन्द्रायारोपो भवति पश्चादेव तु चन्द्रादिषु तद्वारा कम्पमालिन्यायारोपो भवतीति।अयं च कार्यकारणभावः पूर्वसूत्रभाष्यस्येन पशिखवाक्येनाप्युक्तः। तथा सांख्यकारिकायामपि पाठक्रमेणोक्तः ।
१ अहंयुद्धिरथ च भेदेनाप्युपपटातइति पाठान्तरं पुस्तकान्तरे । परंतु 'यं च | भेदाभेदेने यादियुक्ततरं पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org