________________
योगवार्तिकम् । द्वयमन्यासामपि संसारहेतूनामविद्यानामुपलतकमतो न न्यनता। तत्रेत्युत्तरयन्येन तृतीयामवियां व्याख्यातुमादी वक्ष्यमाणसूत्रमुखेन तस्योदाहरणं प्रदर्शर्यात । तथा दुःखइति । तथेत्यस्य तत्र सुखख्यातिविद्येत्यनेना न्वयः । वक्ष्यतीति । अदिति शेषः । तत्रेति। जगद्रपदुःखइत्यर्थः । अत्र च दुःखमेव सर्व विवेकिन इत्यागामिसूत्रे दुःखसाधनतया दुःखबहुलतया च दुःखत्ववचनात् दुःखसाधने दुःखनिवृत्त्याख्यतात्त्विकसुखसाधनत्वबुद्धिः तथा दुःखप्रचुरे सुखप्रचुरत्वबुद्धिश्च नृतीया अविद्येोति बेोधम् । अन्यथा केवलदुःखे दुखभ्रमस्यासिद्धिरिति,चतुर्थीवियां व्याचष्टे तथानात्मनीति। उदाहरणं बाहोति । बाह्मस्य देहस्य उपकरणेषु पुत्रादिषु अहंबुद्धितया विषयभोगावच्छेदकतया अन्तःकरणस्योपकरणे शरीरेऽहंबुद्धिस्तथा भोग्य तया साक्षात्पुरुषस्योपकरणेन्तःकरणे ऽहंरित्यर्थः । इमामेव चतुर्थीमवियामादाय प्रपञ्चविद्याकार्यइत्युच्यते । अहं कर्त्तत्यादभिमानस्यैव धर्माधर्मात्पत्तिद्वाराऽखिलजगद्धेतुत्वात इति । अत्र पञ्चशिखाचार्यसंवाद माह । सति । यथा मयोक्तं तथा । अत्र चतुर्थ अविद्याविषये पञ्च. शिखेनाप्येतदुमित्यर्थः । व्यक्ताव्यक्तं व्याकृताव्याकृतं स्थलसूत्मरूपं बुद्धि सत्त्वमात्मतया गृहीत्वा तस्य सत्त्वस्य संपत्तिं सत्यसंकल्पादिकं शुभवासना. दृष्टादिकं चानुनन्दत्यात्मसंपदं मन्वानस्तथा तस्य विपत्तिम् इच्छावि. घातादिरूपादिकं चानुशोचत्यात्मवित्ति मन्वान एवंविधो यःस सर्वाऽ. विद्यानित्येतदुक्तमित्यन्वयः। ननु शक्तिरजतादिभ्रमरूपाणाविद्यानां कथमन्त्र गणना न कृतेत्याशङ्कयाह । एति। पशोरिव चत्वारि पदानि पादा अंशा अस्या इति चतुष्पदा एवंभूतैवैषा संसारस्य मूलं भवन्तीत्यर्थः ।। तथा च संसाराहेतुतया नान्यासामत्र गणनर्माित भावः । ननु विग्रहतोऽ. विझाशब्दस्य विद्याभिन्नत्वं विद्याशून्यत्वमत्युत्तमविदयात्वं वा अर्थः स्यात् न तु विपरीतख्यातिरित्याशङ्कयाह । तस्याश्चेति । तस्याश्चावि. झायाः सतत्त्वं तत्त्वं वस्त्वेव विज्ञेयं न तु अभावोऽमित्रागोस्पदादिशब्द दित्यर्थः । दृष्टान्तं विभजते । यथा नामित्रति। न मित्राभाव इति । प्रजाभावशन संसगान्योन्याभावी ग्राहो न मित्रमात्रमिति । नास्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org