________________
योगवार्तिकेोपसंहारः ।
प्रकाशान्तरानपेक्षणात् । नहि स्वयं प्रकाशमानो दीपः स्वप्रकाशाय दीपान्तरमपेक्षते । ननु बुद्धिवृत्त्याख्यकरणाभावकाले ऽविषयीकृतस्य सतो घटविषयकज्ञानवानहमित्यादौ तादृशकरणसमवधानकाले आत्मनो ऽपि विषयीकृतत्वं भासते तच्च स्वेनैवेति स्वज्ञेयत्वरूपं स्वप्रकाशत्वमस्त्ये त्रात्मन इति चेत्र । तादृशात्मज्ञानस्य वृत्तिरूपतयात्मनो वृत्तिविषयत्वस्यैव सिद्धावात्मविषयत्वकल्पने गौरवादनुपयोगाच्च । न चोक्तवृत्त्या ऽप्रकाशमान एवात्मा प्रकाश्यते । किंतु भास्वानिव शश्वत्प्रकाशमान एवायं घट इत्याकारकवृत्तिविशेषस्फारकत्वेन परिच्छिदात एव । अथैवमात्मनः स्वज्ञेयत्वा भावोक्त्या श्रुतिस्मृत्युक्तं स्वप्रकाशत्वं विरुद्धयेतेति चेन्मैवम् । घटपटादिपरप्रकाशेभ्यो व्यावृत्तः स्वमेव प्रकाश इति यथाश्रुतार्थकस्यैव स्वप्रकाशत्वस्या - त्मनि सुवचत्वात् । न शुद्धमुक्त्वा कुचोदां कर्तव्यं भवति । नित्यसिद्धं ह्यात्मनः स्वप्रकाशत्वं 'स्वप्रकाशं निरज्जनमित्यादिश्रुत्युक्तं न कथमपि वेदान्तिस्पर्धयैव बुद्धिवृत्यधीनतया युज्यते नेतुम् ।
यत्तूक्तं चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तिरिति । तदसत् । अप्रकाशस्वरूपेषु घटपटादिषु बुद्धिवृत्तिषु च फलव्याप्यत्वस्य व्यवहारहेतुताया: क्लृप्रत्वेपि प्रकाशस्वरूपस्यात्मनः स्वव्यवहारसिद्धार्थं फलचैतन्यानपेक्षणात् । प्रकाशे प्रकाशमानत्वस्य नित्यसिद्धत्वात् । नहि स्वमाधुर्येणा मधु रान्मधुरयन्मधु स्वस्थापि माधुर्यमन्यतो ऽपेक्षेत । एतेन पुरुषगोचरव्यवहारः पुरुषसतेवेत्युक्ता वृत्तिगोचरव्यवहारोपि स्वरूपसत्या घृत्यैव वक्तुं शक्येतेत्याद्युक्तिः प्रत्युक्ता । वृत्तिस्वरूपसत्ताया एव प्रकाशाधीनतया तद्ाचरव्यवहारस्य स्वतो वक्तुमशक्यत्वात् । वृत्तीनां स्वतः प्रकाशमानत्वे प्रमाणाभावात् । ननु भवताप्यात्मनो वृत्तिव्याप्यत्वमिष्यत एव तत्तु न केवलवृत्तिसाध्यमात्मनोविभुत्वादित्यात्माकार बुद्धिवृत्त्यवच्छिचात्मव्याप्यत्वानङ्गीकारे ऽपि नृत्यवच्छित्रात्मप्रकाश्यत्वमेवागतमात्मन इति क्षेत्र । विशेषाधानाचमात्मविषयीकरणस्य विचारकोटावुल्लेखानर्हत्वात् । नहि दीपज्योतिः स्वेनैवावस्यान्तरगतेन प्रकाश्यत इति कोपि प्रत्येति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org