________________
योगवार्तिकोपसंहारः ।
प्रपञ्चस्य तत्त्वं तच्च परं ब्रह्म विकारस्तु मध्ये वाचारम्भणमात्रमित्यस्मा कर्माप सिद्धान्त इति प्रलपति । अस्यापि परमार्थतः प्रपञ्चस्य वाचारम्भशामात्रत्वनातितुच्छत्वमनुमतमेव चेत्किमपरा, तथा ब्रुवद्भिर्वेदान्तिभिः । न च परमार्थतस्तुच्छत्वातितुच्छत्वयोः कोपि विशेष उपपद्यते । व्यवहारत एव चेद्वेदान्तिभिरपि तदा सो ऽनुमन्यत एव सत्तात्रयवादिभिः ।
अस्ति चास्यापरं पाण्डित्यं यदयं सत्त्वपुरुषयोरत्यन्तासंकीर्णयोरिति सूत्रे सत्रान्तरेषु च प्रकटति । तथाहि । स्वप्रकाशत्वं चात्मनः स्वजेय. त्वमेव । न चात्र कर्मकर्तृविरोधः । कर्मकर्तृविरोधे हि स्वस्मिन् स्वसंबन्धानुपपत्तिरेव बीजम् । प्रकाशसंबन्धस्यैव प्रकाश्यतारूपत्त्वात् । अनुभवप्राप्यारेकार्थत्त्वाच्च । स च संबन्ध एकस्मिपि बिम्बप्रतिबिम्बाख्यरूपभेदेनो. पपत्रः । अथैवमपि परसमवेतक्रियाफलभागित्त्वरूपं कर्मलक्षणं पुरुषे न घटत इति चेन्न । विशिष्टाविशिष्टरूपेण ज्ञातृजेययोर्भेदसत्वात् । आत्मा. कारवृत्यच्छित्रस्य ज्ञातृत्त्वात केवलस्य ज्ञेयत्त्वात् । यत्तु अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्त्वं स्वप्रकाशत्वमित्याधुनिकवेदान्तिब्रवाणां प्रलपनं तत्र युक्तम् । चित्तवृत्तावप्येवं परैरदृश्यत्वस्य सुवचतया चित्तातिरिक्तपुरुसिद्धानुपपत्तेः । वृत्तिगोचरव्यवहारस्यापि स्वरूपसत्त्या वृत्त्यैव वक्तुं शक्यत्त्वात् । यदपि वृत्तिव्याप्यत्त्वमात्मनोभ्युपेत्य फलव्याप्यत्वं वेदान्तिब्रुवैरपलप्यते ताप मोहादेव । फल व्याप्यत्वस्य सामान्यतो व्यवहारहेतुतायाः कप्तत्वेन चैतन्याख्यफलव्याप्यतां विना चैतन्यव्यवहारानुपपत्तेरिति ।
अत्रेयं चिन्ता । आत्माकारवृत्त्यवच्छिवस्य ज्ञातृत्वं केवलस्य च ज्ञेयत्वं वदता विज्ञानदेवेन यदात्मनः स्वप्रकाशत्वमित्यस्य स्वज्ञेयत्वमित्येवार्थ इत्युच्यते तत्किं वृत्त्यवच्छिनः स्वगतप्रकाशेनाप्रकाशमानं केवलं प्रकाशयतीत्यभिप्रेत्याहोस्वित्स्वयंप्रकाशमानमेव सन्तं प्रकाशयतीति । न तावदादयः संभवति । द्रष्टा दृशिमात्र इति सूत्रे द्रष्टुः शुद्धप्रकाशा. त्मकत्त्वस्यैव निर्णीततया वृत्तिसारूप्येप्यस्याप्रकाशमानत्त्वासंभवात् । न च प्रकाशस्वरूपोपि न प्रकाशते इति वक्तुं युक्तम् । प्रकाशात्मापि सविता न प्रकाशत इति वद्वदतो व्याघातात् । नाप्यन्त्यः । स्वयं प्रकाशमानस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org