________________
१०
योगवार्तिकोपसंहारः । वृत्तिव्याप्तिर्राप नात्मप्रकाशनायेष्यते । वृत्त्यभावस्यापि प्रकाशकस्य वृत्ति. प्रकाश्यत्वासंभवात् । किंतु विशेषरूपेणात्मपरिच्छेदाय बुद्धा घरकाज्ञानावरणभङ्गायैव वा। प्रत्युत केबलात्मविषयीकर्तुत्यच्छिवचैतन्य स्य विज़ा. नभिक्षुदिशा स्वप्रकाशत्वोपपादनाय वृत्त्य तराच्छिव वैतन्य व्याप्यत्वं वक्तव्यं तस्य च तदितरव्याप्यत्वमित्य नवस्थापत्तिर्दुबारा । किंचात्मबुद्धयोरयोनलवदवच्छेयावच्छेदकत्वस्वीकारे बुद्धिगत तीनां स्वाच्छिचात्मना प्रकाशसंभवे तासां भानायात्मनि पुनः प्रतिबिम्बस्यात्मभानाय बुद्धिप्रतिबिम्बितात्मप्रतिबिम्बस्य च कल्पनं विज्ञानभिज्ञाः कुकल्पनमेव । वदति च सूत्रकारो द्रष्टदृश्योपरक्तं चित्तं सर्वार्थमिति । ननु सविषयवृत्तः स्फुरणं चेतनसंयोगादेव भवेच्चेत्कुठस्यविभुचैतन्यस्य सर्वसंबन्धात्सदैव सर्व वस्तु सर्वज्ञायेतनखलु तथा संभवतीति चेतने प्रतिबिम्बिनाया एक सविषयवृत्ते स्फुरणं वाच्यम् । न च बुद्धिदर्पणप्रतिबिम्बितेन बुद्धिवृत्त्यार्थीकारया तदाकारतामापदामानेन फल चैतन्येनैव तादृशत्तिभानं स्यादिति वाच्यम् । प्रतिबिम्बस्य तुच्छतया ऽर्यभानरूपत्व नुपपत्तेः । प्रतिबिम्बस्य प्रकाशाट्य क्रियाकारितायाः क्वाप्य दर्शनाच्चेति चेत्र । विभुचेतनसंबन्धस्य सार्वत्रिकत्वेपि विशेषरूपेण चैतन्याभिव्यक्त्यनुकूलत्य तस्य निर्मले बुद्धसत्त्व एव संभवात् । तेनैव च स्वावच्छेदकबुद्धितिप्रकाशने संभवति चेतनप्रति. बिम्ब कल्पने गौरवात् । दृश्यते चादर्शगतानां सूर्यप्रतिबिम्बानां पार्व. वर्तिनिरातफ्य प्रदेशप्रकाशनम् ।
अात्मभानाय बुद्धिप्रतिबिम्बितात्मप्रतिबिम्बकल्प नस्य वैयर्थ्य मन वस्थायस्तत्त्वं चोक्तमेव । नित्यप्रकाशरूपस्यात्मनः स्वभानाय प्रकाशान्तरानपेक्षणात तस्य च स्वतः सिदत्वात् । स्वयंप्रकाशमानस्यैत्र बुद्धिवृत्त्यबच्छित्रस्य केवलस्य चात्मनोनिश्चयायैव बुद्धित्तिपरिच्छेदात्वस्य श्रुति. स्मृतिसिद्धत्त्वात् । तथा च श्रयते विज्ञातारमरे केन विजानीयात् । गृह्यते त्त्वपया बुद्धयेत्यादि । एवं चावेदात्वे सत्यपरोक्षव्यवहारयोग्यत्वरूपं वेदान्त्युक्तं स्वप्रकाशत्वमेव सूपपादम् इति । तदेवं श्रुतिस्मृतियुक्तिसहस्रा. नुयायिभिः पदवास्यप्रमाणपारावारीणभगवत्पज्यपादश दुराचार्यादिभिर्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org