________________
६४. विसल्लाआगमणपव्वं
सुणिऊण वयणमेयं, सेणिय ! रामो तओ सुपरितुट्ठो । विज्जाहरेहि समयं, करेइ मन्तं गमणकज्जे ॥१॥ जम्बूनयाइएहिं मन्तीहिं राहवो तओ भणिओ । पेसेह जलस्स इमे, अङ्गय-हणुयन्त - जणयसुया ॥२॥ भामण्डलो य हणुओ, सुग्गीवसुओ य रामदेवेणं । भणिया साएयपुरी, वच्चह उदयस्स कज्जेणं ॥३॥ आणं पडिच्छिऊणं, अह ते विज्जाहरा खणद्धेणं । पत्ता साएयपुरिं, नरिन्दभवणम्मि ओइण्णा ॥४॥ संगीयएण भरहो, उवगिज्जन्तो विबोहिओ सिग्घं । भवणाउ समोइण्णो, अह पुच्छ्इ खेयरे तुट्ठो ॥५॥ सीयाहरणनिमित्ते, पहओ लच्छीहरो य सत्तीए । भरहस्स तेहि सिट्टं, कहियं संखेवओ सव्वं ॥६॥ सोऊण इमं भरहो, रुट्ठो दावेइ तो महाभेरी । हय-गय-रहेहि समयं सन्नद्धो तक्खणं चेव ॥७॥ सोण भेरिसद्दं, सव्वो साकेयपुरवरीलोगो । किं किं ? ति उल्लवन्तो, भयविहलविसंठलो जाओ ॥८॥ भणइ जणो किं एसो, अइविरियसुओ इहागओ रतिं ? । भरहस्स छिद्दहाई, जो निययं चेव पडिकूलो ॥९॥ एयं घेत्तूण लहुं, मणिकणयं रुप्पयं पवालं च । वत्थाहरणं च बहुं, करेह भूमीहल्लीणं ॥१०॥ रह-गय-तुरयारूढा, सुहडा सत्तुग्घयाइया सव्वे । सन्नद्धबद्धकवया, भरहस्स घरं समल्लीणा ॥११॥
६४. विशल्यागमन पर्वम्
श्रुत्वा वचनमिदं श्रेणिक ! रामस्ततः परितुष्टः । विद्याधरैः समकं करोति मन्त्रं गमनकार्ये ॥१॥ जम्बूनदादिभि र्मन्त्रिभी राघवस्ततो भणितः । प्रेष्यध्वं जलस्येमे ऽङ्गद-हनुमान् - जनकसुताः॥२॥ भामण्डलश्च हनुमान् सुग्रीवसुतश्च रामदेवेन । भणिता साकेतपुरिं गच्छतोदकस्य कार्येण ॥३॥ आज्ञां प्रतीच्छयाथ ते विद्याधराः क्षणार्द्धेन । प्राप्ताः साकेतपुरिं नरेन्द्रभवनेऽवतीर्णाः ||४|| संगीतकेन भरत उपगीयमानो विबोधितः शीघ्रम् । भवनात्समवर्तीणोऽथ पृच्छति खेचरांस्तुष्टः ॥५॥ सीताहरणनिमित्ते प्रहतो लक्ष्मीधरश्च शक्त्या । भरतस्य तैः शिष्टं कथितं संक्षेपतः सर्वम् ॥६॥ श्रुत्वेदं भरतो रुष्टो दापयति तदा महाभेरिम् । हय-गज-रथैः समकं सन्नद्धस्तत्क्षणमेव ॥७॥ श्रुत्वा भेरिशब्दं सर्वः साकेतपुरिलोकः । किं किंमित्युल्लपन्भयविह्वलविसंस्थूलो जातः ॥८॥ भणति जनः किमेष अतिवीर्यसुत इहागतो रात्रिम् ? । भरतस्य छिद्रघाति र्यो नित्यमेव प्रतिकूलः ॥९॥ एतद्गृहीत्वा लघु मणिकनकं रुप्यकं प्रवालं च । वस्त्राभरणं च बहुं कुरुत भूमिगृहलीनम् ॥१०॥ रथ-गज-तुरगारुढाः सुभटाः शत्रुघ्नादयः सर्वे । सन्नद्धबद्धकवचा भरतस्य गृहं समालीनाः ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org