________________
६१. सत्तिसंपायपव्वं
अन्ने रणपरिहत्था, सूरा सन्नदधबद्धतोणीरा । वाणरभडाण समुहा, समुट्ठिया रक्खसा बहवे ॥१॥ पडुपडह-भेरि-झल्लरि-काहल - तलिमा मुइङ्गसद्देणं । फुडियं पिव आयासं, दो अद्धे महियलं व गयं ॥२॥ एत्थन्तरे महप्पा, लङ्कापरमेसरो सह बलेणं । परिसक्कइ रणभूमिं पुरओ देविन्दसमविहवो ॥३॥ नाणाउहगहियकरा, नाणाविहवाहणेसु आरूढा । नाणाविहबद्धचिन्धा, आवडिया समरसोडीरा ॥४॥ सर-झर - सत्ति - सव्वल करालकोन्तेहिं खिप्पमाणेहिं । जह निम्मलं पि गयणं, खणेण गहणंकियं सयलं ॥ ५ ॥ तुरयारूढेहि समं, आसवलग्गा तओ समावडिया । जोहा जोहल्लीणा, रहिया रहिए विवाएन्ति ॥ ६ ॥ मत्तगइन्दत्था वि य, अब्भिट्टा कुञ्जरोवरिठियाणं । एवं समसरिसबला, आलग्गा समरकम्मन्ते ॥७॥ तं वाणराण सेन्नं, भग्गं चिय रक्खसेहि परहुत्तं । नीलाइकइभडेहिं, पुणरवि आसासियं सव्वं ॥८॥ निययबलपरिभवं ते, दट्टं लङ्काहिवस्स सामन्ता । जोहन्ति सवडहुत्ता, अरिसेन्नं सत्थपहरेहिं ॥९॥ सुय-सारण-मारीची-चन्दक्का विज्जुवयणमाईया । जीमूतनायको वा, कयन्तवयणा समरसूरा ॥१०॥ तंम य संगाममुहे, भग्गं कइसाहणं पलोएडं । सुग्गीवसन्तिया जे, समुट्ठिया सुहसंघाया ॥११॥
६१. शक्तिसम्पातपर्वम्
अन्ये रणदक्षाः शूराः सन्नद्धबद्धतोणीराः । वानरभटानां संमुखाः समुत्थिता राक्षसा बहवः ||१|| पटुपटहभेरिझल्लरि-काहलतलिमामृदंगशब्देन । स्फुटितमिवाकाशं द्वयर्द्धे महितलमिव गतम् ॥२॥ अत्रान्तरे महात्मा लङ्कापरमेश्वरः सह बलेन । परिष्वकति रणभूमिं पुरतो देवेन्द्रसमविभवः ||३|| नानाऽऽयुधगृहीतक नानाविधवाहनेष्वारुढाः । नानाविधबद्धचिह्ना आपतिताः समरशौण्डिराः ||४|| शर-झसर-शक्ति-सर्वल-करालकौन्तैः क्षिप्यमानैः । यथा निर्मलमपि गगनं क्षणेन ग्रहणाङ्कितंसकलम् ॥५॥ तुरगारूढैः सममश्वलग्नास्ततः समापतिताः । योधा योधेन रथिका रथिकेन विपाद्यन्ते ॥६॥ मत्तगजेन्द्रस्था अपि च प्रवृत्ताः कुञ्जरोपरिस्थितानाम् । एवं समसदृशबला आलग्नाः समरकर्मान्ते ||७|| तद्वानराणां सैन्यं भग्नमेव राक्षसैः पराङ्मुखम् । नीलादिकपिभटैः पुनरप्याश्वासितं सर्वम् ॥८॥ निजबलपरिभवं तं दृष्ट्वा लड्काधिपस्य सामन्ताः । युध्यन्तेऽभिमुखा अरिसैन्यं शस्त्रप्रहारैः ||९|| शुक्र- सारण-मारीचि-चन्द्रार्का विद्युद्वदनादयः । जीमूतनायको वा कृतान्तवदनाः समरशूराः ॥ १०॥ तस्मिंश्च संग्राममुखे भग्नं कपिसाधनं प्रलोक्य । सुग्रीवसत्का ये समुत्थिताः सुभटसंघाताः ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org