________________
विज्जासन्निहाणपव्वं-५९/१२-३८
४४३ रुट्ठो य जम्बुमाली, अन्नं आबन्धिऊण सन्नाहं । पहरइ सरेसु हणुयं, देहे नीलुप्पलाभेसु ॥२५॥ पवणसुएणं तत्तो, सीहसयं सट्ठिसंजुयं मुक्कं । दाढाकरालवयणं, ललन्तजीहं जलियनेत्तं ॥२६॥ तं केसरीहि सेन्नं, विद्धत्थं गय-तुरङ्ग-पाइक्कं । संगामपराहुत्तं, दट्टण महोयरो कुद्धो ॥२७॥ जाव य महोयरेणं, समयं हणुयस्स वट्टए जुझं । ताव य निसायरेहि, निवारिया केसरी सव्वे ॥२८॥ काऊण वसे सीहा, समुट्ठिया रक्खसा समन्तेणं । मुञ्चन्ताउहनिवहं, उवरि हणुयस्स ते कुविया ॥२९॥ ते आउहसंघाया, मुक्का हणुयस्स रक्खसभडेहिं । समणस्स जहुक्कोसा, न कुणन्ति मणस्स परितावं ॥३०॥ रयणियरवेढियं तं, दट्टण कइद्धया महासुहडा । गय-तुरयसमारूढा, समुट्ठिया पवणपरिहत्था ॥३१॥ पीइंकरो सुसेणो, नलो य नीलो विराहिओ चेव । संतावो सीहकडी, रविजोई अइबलो सुहडो ॥३२॥ जम्बूणयपुत्ताई, रहेसु गय-तुरय-सीहजुत्तेसु । हणुयस्स सत्तुसेन्नं, जोहेऊणं समाढत्ता ॥३३॥ निद्दयपहराभिहयं, वाणरसुहडेसु रक्खसाणीयं । भग्गं परीसहेहि व, चित्तं असमत्थजोइस्स ॥३४॥ दट्टण भाणुकण्णो, निययबलं वाणरेसु भज्जन्तं । कुविओ तिसूलपाणी, अहिमुहिहूओ रिउभडाणं ॥३५॥ दट्ठण य एज्जन्तं, वीरं रणसत्ति-कन्तिदिप्पन्तं । सुहडा सुसेणमाई, तस्स ठिया अभिमुहा पुरओ ॥३६॥ नामेण चन्दरस्सी, चन्दाभो चेव तह य जसकन्तो । ड्वद्धणो य अङ्गो, सम्मेओ अङ्गओ चेव ॥३७॥ कुन्तो बली तुरङ्गो, चन्दो ससिमण्डलो सुसारो य । रयणजडी जयनामो, वेलक्खो वीवसंतो य ॥३८॥
रुष्टश्चजम्बूमाल्यन्यमाबध्य सन्नाहम् । प्रहरति शरैर्दारुणं देहे नीलोत्पलाभैः ॥२५॥ पवनसुतेन ततः सिंहशतं षष्टिसंयुक्तं मुक्तम् । दंष्ट्रा करालवदनं ललज्जीव्हं ज्वलितनेत्रम् ॥२६॥ तं केसरिभिः सैन्यं विध्वस्तं गज-तुरग-पादातिम् । संग्रामपराङ्मुखं दृष्ट्वा महोदरः क्रुद्धः ॥२७॥ यावच्च महोदरेण समकं हनुमतो वर्तते युद्धम् । तावच्च निशाचरैः निवारिताः केसरिणः सर्वे ॥२८॥ कृत्वा वशे सिंहान्समुत्थिता राक्षसाः समन्तेन । मुञ्चदायुधनिवहमुपरि हनुमतस्ते कुपिताः ॥२९॥ त आयुधसंघाता मुक्ता हनुमतो राक्षसभटैः । श्रमणस्य यथोत्क्रोशा न कुर्वन्ति मनसः परितापम् ॥३०॥ रजनिकरवेष्टितं तं दृष्ट्वा कपिध्वजा महासुभटाः । गज-तुरगसमारुढाः समुत्थिताः पवनदक्षाः ॥३१॥ प्रीतिकरः सुसेनो नलश्च नीलो विराधित एव । संतापः सिंहकटी रविज्योतिरतिबल: सुभटः ॥३२॥ जम्बूनदपुत्रादयो रथेषु गज-तुरग-सिंहयुक्तेषु । हनुमतः शत्रुसैन्यं योद्धं समारब्धाः ॥३३॥ निर्दयप्रहाराभिहतं वानरसुभटै राक्षसानीकम् । भग्नं परिषहैरिव चित्तमसमर्थयोगिनः ॥३४॥ दृष्ट्वा भानुकर्णो निजबलं वानरै भज्यमानम् । कुपितस्त्रिशूलपाणिरभिमुखो रिपुभटानाम् ॥३५॥ दृष्ट्वा चायान्तं वीरं रणशक्तिकान्तिदीप्यन्तम् । सुभटाः सुसेनादयस्तस्य स्थिता अभिमुखा:पुरतः ॥३६।। नाम्ना चन्द्ररश्मिश्चन्द्राभ एव तथा च यश:कान्तः । रतिवर्धनश्चाङ्गः सम्मेतोऽङ्गद एव ॥३७|| कुन्तो बली तुरङ्गश्चन्द्रः शशिमण्डलः सुसारश्च । रत्नजटी जयनामो वैलक्ष्यो विवस्वांश्च ॥३८॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org