________________
|| ५९. विज्जासनिहाणपव्वं ।
हत्थ-पहत्था समरे, निहया नाऊण रावणस्स भडा । बहवो कोहवसगया, समुट्ठिया तत्थ रणसूरा ॥१॥ सीहकडी मणी वि य, सयंभु-सुय-सारणा य संभू य । चन्दो य तहा अक्को, गओ य बीभच्छनामो य ॥२॥ सुहडो जरो य अक्को, मयरो वज्जक्खनामधेओ य । गम्भीराई एए, सन्नद्धा रणरसुच्छाहा ॥३॥ केसरिजुत्तेसु इमे, रहेसु असि-कणय-तोमरविहत्था । दिट्ठा य उत्थरन्ता, निसायरा वाणरभडेहिं ॥४॥ मयणङ्कर-संतावा, अक्कोसा-ऽऽणन्दणा तहा हरिया। नहपुप्फुत्थावग्घा, एए यपीयंकराईया ॥५॥ एक्केकमाण जुझं, आवडियं दारुणं वरभडाणं । जह आउहेहि जायं, जलई व नहङ्गणं सहसा ॥६॥ मारिज्जेण समाणं, संतावो रणमुहे समावडिओ। पहओ सीहकडीणं, उद्दामो विग्घनामेणं ॥७॥ अक्कोस-सारणाणं, जुझं सुय-सारणाण अब्भिट्ट । असि-कणय-चक्क-तोमरं-संघट्टट्ठन्तजालोहं ॥८॥ निहओ च्चिय संतावो, मारीजिभडेण नन्दणेण जरो । पहओ सीहकडीणं, विग्यो उद्दामकित्तीणं ॥९॥ एए रणम्मि सुहडा, सोऊण विवाइया सभज्जाओ। रोवन्ति जाव कलुणं, ताव य अत्थंगओ सूरो ॥१०॥ सूरुग्गमम्मि पुणरवि, समुट्ठिया उभयसेन्नसामन्ता । सन्नद्धबद्धचिन्धा, गहियाउह-पहरणा-ऽऽवरणा ॥११॥
॥ ५९. विद्यासन्निधान पर्वम् ॥
हस्त-प्रहस्तौ समरे निहतौ ज्ञात्वा रावणस्य भटाः । बहवः कोपवशगताः समुत्थितास्तत्र रणशूराः ॥१॥ सिंहकटी मान्यपि च स्वयंभू-शुक-सारणाश्च शंभुश्च । चन्द्रश्च तथाऽर्को गतश्च बिभत्सनाम च ॥२॥ सुभटो ज्वरश्चार्को मकरो वज्राक्षनामधेयश्च । गम्भीरादय एते सन्नद्धा रणरसोत्साहाः ॥३॥ केसरियुक्तैरिमे रथैरसि-कनक-तोमरविहस्ताः । दृष्टाश्चावस्तरन्तो निशाचरा वानरभटैः ॥४॥ मदनाङ्कुरसंतापा आक्रोशाऽऽनन्दनास्तथा हरिताः । नभः पुष्पास्त्रव्याघ्राः एते च प्रियंकरादयः ॥५॥ एकैकेषां युद्धमापतितं दारुणं वरभटानाम् । यथायुधैर्जातं जलतीव नभोऽङ्गनं सहसा ॥६॥ मारीचिणा समानं संतापो रणमुख आपतितः । प्रहतःसिंहकटीनोद्दामो विघ्ननाम्ना ॥७॥ आक्रोश-सारणानां युद्धं शुक-सारणानां प्रवृत्तम् । असि-कनक-चक्र-तोमर-संघटोत्तिष्ठज्ज्वालोधम् ॥८॥ निहत एव संतापो मारिचिभटेन नन्दनेन ज्वरः । प्रहतः सिंहकटिना विघ्नं उद्दामकीर्तिना ॥९॥ एतान्रणे सुभटान्श्रुत्वा विपादितात्स्वभार्याः । रुदन्ति यावत्करुणं तावच्चास्तंगतः सूर्यः ॥१०॥ सूर्योदये पुनरपि समुत्थिता उभयसैन्यसामन्ताः । सन्नद्धबद्धचिह्ना गृहीतायुधप्रहरणावरणाः ॥११॥
१. रणसमुच्छाहा-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org