________________
५१. राघवगंधव्वकन्नालाभपव्वं
अह तस्स नहयलेणं, वच्चन्तस्सऽन्तरे तओ जाओ । वररयणपज्जलन्तो, दीवो च्चिय दहिमुहो नामं ॥१॥ अह तम्मि पवरदीवे, अत्थि पुरं दहिमुहं ति नामेणं । भवणसहस्साइण्णं, काणण-वणमण्डिउद्देसं ॥२॥ तस्स पुरस्साऽऽसन्ने, नाणाविहरुक्खसंकडुद्देसे । हत्थावलम्बियभुयं, दिलु हणुवेण मुणिजुयलं ॥३॥ कोसस्स चउब्भागे, मुणिवरवसभाण तिण्णि कन्नाओ । तप्पन्ति तवं घोरं, विज्जाए साहणट्ठम्मि ॥४॥ अहतं मुणिवरजुयलं, जोगत्थं वणदवग्गिडज्झन्तं । कन्नाहि समं दटुं वच्छलं कुणइ हणुवन्तो ॥५॥ आयड्डिऊण एत्तो, सायरसलिलं घणो व्व विज्जाए । वरिसइ मुणीण उवरिं, मुसलपमाणासु धारासु ॥६॥ सो हुयवहो असेसो, अवहरिओ तेण सलिलपूरेणं । मुञ्चन्ति कुसुमवासं, देवा उवरिं मुणिवराणं ॥७॥ ताव च्चिय कन्नाओ, ताओ उवसग्गसिद्धविज्जाओ। मेरुं पदक्खिणेउं, साहुसयासं पुण गयाओ ॥८॥ नमिऊण मुणिवरिन्दे, झाणत्थे मारुई पससन्ति । कन्नाउ साहु सुपुरिस !, तुज्झ दढा जिणवरे भत्ती ॥९॥ घोरुवसग्गो एसो, साहूण निवारिओ तुमे सिग्धं । डज्झन्तीणं रणे, अम्हाण वि जीवियं दिन्नं ॥१०॥ अह भणइ पवणपुत्तो, तुब्भे किं एत्थ अच्छह वणम्मि? ।साहेह मज्झ एत्तो, कम्मि पुरे? कस्स दुहियाओ? ॥११॥
|| ५१. राघवगांधर्वकन्यालाभपर्वम् ।
अथ तस्य नभस्तलेन व्रजतोऽन्तरे ततोजातः । वररत्नप्रज्वलद्द्वीप एव दधिमुखो नाम ॥१॥ अथ तस्मिन्प्रवरद्वीपेऽस्ति पुरं दधिमुखमिति नाम्ना । भवनसहस्राकीर्णं कानन-वनमण्डितोद्देशम् ॥२॥ तस्या पुरस्यासन्ने नानाविधवृक्षसंकीर्णोद्देशे । हस्तावलम्बितभूजं दृष्टं हनुमता मुनियुगलम् ॥३॥ कोशस्य चतुर्भागे मुनिवरवृषभानां तिस्रः कन्याः । तप्यन्ति तपः घोरं विद्यायाः साधनार्थे ॥४॥ अथ तं मुनिवरयुगलं योगस्थं वनदवाग्निदहन्तम् । कन्याभिः समं दृष्ट्वा वात्सल्यं करोति हनुमान् ॥५॥ आकृष्येतः सागरसलिलं घन इव विद्यया । वर्षति मुनीनामुपरि मूसलप्रमाणाभि धाराभिः ॥६॥ स हुतवहो ऽशेषोऽपहृतस्तेन सलिलपूरेण । मुञ्चन्ति कुसुमवर्षां देवा उपरि मुनिवराणाम् ॥७॥ तावदेव कन्यास्ता उपसर्गसिद्धविद्याः । मेरुं प्रदक्षिण्य साधुसकाशं पन र्गताः ॥८॥ नत्वा मुनिवरेन्द्रौ ध्यानस्थौ मारुति प्रशंसन्ति । कन्याः साधु सत्पुरुष ! तव दृढा जिनवरे भक्तिः ॥९॥ घोरोपसर्ग एष साधूनां निवारितस्त्वया शीघ्रम् । दहन्तीनामरण्ये ऽस्माकमपि जीवितं दत्तम् ॥१०॥ अथ भणति पवनपुत्रो यूयं किमत्रास्ध्वे वने ? ! कथयत ममेतः कस्मिन्पुरे ? कस्य दुहितर: ? ॥११॥
१. मुसलसमाणासु-प्रत्य०।२. मारुइं-प्रत्य० । पउम. भा-३/२
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org