________________
७१. लक्खण-रावणजुज्झपव्वं
अह सो रक्खसनाहो, कमेण आपुच्छिऊण धरिणीओ । कोहं समुव्वहन्तो, विणिग्गओ निययनयरीओ ॥१॥ इन्दं नाम रहं सो, पेच्छइ बहुरूविणीए निम्मवियं । विविहाउहाण पुण्णं, दन्तिसहस्सेण संजुत्तं ॥२॥ अह ते मत्तगइन्दा, एरावणसन्निभा चउविसाणा । गेरुयकयङ्गराया, घण्टासु य कलयलारावा ॥३॥ अह सो महारहं तं, आरूढो केउमण्डणाडोवं । आहरणभूसियङ्गो, इन्दो इव रिद्धिसंपन्नो ॥४॥ तस्स विलग्गस्स रहे, समूसियं चन्दमण्डलं छत्तं । गोखीर-हारधवलं च उद्भुयं चामराजुयलं ॥५॥ पडुपडह-सङ्ख-काहल-मुइङ्ग - तिलमा गहीरपणवाणं । पहयं पहाणतूरं, पलयमहामेहनिग्घोसं ॥६॥ अप्पसरिसेहि समयं, दसहि सहस्सेहि खेयरभडाणं । सुरसरिसविक्कमाणं, रणर्कण्डू उव्वहन्ताणं ॥७॥ एयन्तरम्मि पउमो, पुच्छ्इ सुहडा सुसेणमाईया । भो भो ! कहेइ एसो, दीसइ कवणो नगरवरिन्दो ? ॥८॥ अलिउलतमालनीलो, जम्बूनयविविहसिहरसंघाओ । चच्चलतडिच्छडालो, नज्जइ मेहाण संघाओ ॥९॥ तो भइ जम्बुवन्तो, सामिय ! बहुरूविणीए विज्जाए । सेलो कओ महन्तो, दीसइ लङ्काहिवो एसो ॥१०॥ जम्बूणयस्स वयणं, सोऊणं भणइ लक्खणो एत्तो । आणेह गरुडेकेडं, महारहं मा चिरावेह ॥ ११ ॥
७१. लक्ष्मण रावण युद्ध पर्वम्
अथ स राक्षसनाथः क्रमेणापृच्छ्य गृहिणीः । क्रोधं समुद्वहन् विनिर्गतो निजनगर्याः ||१||
इन्द्रं नाम रथं स पश्यति बहुरुपिण्या निर्मापितम् । विविधायुधानां पूर्णं दन्तिसहस्रेण संयुक्तम् ॥२॥ अथ ते मत्तगजेन्द्रा ऐरावणसन्निभाश्चतुर्विषाणाः । गेरुककृताङ्गरागाः घण्टाभिश्च कलकलारावाः ॥३॥ अथ स महारथं तमारुढः केतुमण्डनाटोपम् । आभरणभूषिताङ्ग इन्द्र इवर्द्धिसंपन्नः ॥४॥ तस्य विलग्नस्य रथे समुच्छ्रितं चन्द्रमण्डलं छत्रम् । गोक्षीर-हारधवलं चोद्धृतं चामरयुगलम् ॥५॥ पटुपटहशङ्खकाहलमृदङ्गतिलमागभीरपणवानाम्। प्रहतं प्रधानतूर्यं प्रलयमहामेघनिर्घोषम् ॥६॥ आत्मसदृशैः समकं दशभिः सहस्त्रैः खेचरभटानाम् । सुरसदृशविक्रमाणां रणकण्डूमुद्वहताम् ॥७॥ एतदन्तरे पद्म:पृच्छति सुभटान् सुषेणादीन् । भो भो ! कथयतैष दृश्यते को नगवरेन्द्रः ? ॥८॥ अलिकुलतमालनीलो जम्बूनदविविधशिखरसंघातः । चञ्चलतडिच्छटालो ज्ञायते मेघानां संघातः ॥९॥ तदा भणति जम्बुवान् स्वामिन् ! बहुरुपिण्या विद्यया । शैलः कृतो महान् दृश्यते लङ्काधिप एषः ॥१०॥ नस्य वचनं श्रुत्वा भणति लक्ष्मण इतः । आनय गरुडकेतुं महारथं मा चिरायत ॥ ११ ॥
१. कण्डुं प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org