________________
अंजणानिव्वासणहणुयउप्पत्तिअहियारो - १७/१-२४
एक्कं चिय जाव न वी, दुक्खं वोलेइ जणियपियविरहं । ताव य उवट्ठियं मे, बीयं अववायसंबन्धं ॥ १२ ॥ किं मज्झ पयावइणा, इमं सरीरं अलद्धसुहसायं । बहुदुक्खसन्निहाणं, जाणन्तेणेव निम्मवियं ? ॥१३॥ भणइ य वसन्तमाला, बाले ! किं विलविएण रण्णम्मि ? । पुव्वकयं निम्मायं, अणुहवियव्वं अविमणाए ॥१४॥ कयपल्लवोवहाणे, वसन्तमालाए विरइए सयणे । सुवइ खणलद्धनिद्दा, पडिया चिन्तासमुद्दम्मि ॥१५॥ सूरुग्गमम्मि तो सा, सहीए समयं कुलोचियं नयरं । पविसन्ती दीणमुही, पडिरुद्धा दारवालेणं ॥ १६॥ पडिपुच्छियाए सिद्वं, वसन्तमालाए दारवालस्स । पवणंजयमाईयं, सव्वं चिय अञ्जणागमणं ॥ १७॥ अह सो वि दारवालो, सिलाकवाडो त्ति नाम गन्तूणं । तं चेव वयणनिहसं, महिन्दरायस्स साहेइ ॥१८॥ जं दारवालएणं, सिट्टं दुहियागमं सअववायं । तं सोऊण महिन्दो, अहोमुहो लज्जिओ जाओ ॥१९॥ रुट्ठो पसन्नकित्ती, महिन्दपुत्तो तओ भाइ एवं | धाडेह पावकम्मा, बाला कुलदूसणी एसा ॥२०॥ नामेण महुच्छाहो, सामन्तो भाइ एव न य जुत्तं । दुहियाण होह सरणं, माया - वित्तं महिलियाणं ॥२१॥ अच्चन्तनिड्डुरा सा, केज( ?कित्ति ) मई लोयधम्मकयभावा । निद्दोसा एस पहू !, बाला निद्धाडिया तीए ॥२२॥ भाइ य महिन्दराया, पुवि पि मए सुयं जहा एसा । पवणंजयस्स वेसा, तेण य गब्भस्स संदेहो ॥२३॥ मा होहिइ अववाओ, मज्झं पि इमाए संकिलेसेणं । भणिओ य दारवालो, धाडेह लहुं पुरवराओ ॥२४॥
एकमेव यावन्नापि दुःखं अतिक्रामति जनितप्रियविरहम् । तावच्चोपस्थितं मे द्वितीयमपवादसम्बन्धम् ॥१२॥ किं मम प्रजापतिनेदं शरीरमलब्धसुखशातम् । बहुदुःखसन्निधानं जानतैव निर्मापितम् ? ॥१३॥ भणति च वसन्तमाला बाले ! किं विलापितेनारण्ये ? । पूर्वकृतं निर्मातमनुभवितव्यमविमनसा ॥१४॥ कृतपल्लवोपधाने वसन्तमालया विरचिते शयने । स्वपिति क्षणलब्धनिद्रा पतिता चिन्तासमुद्रे ॥१५॥ सूर्योद्गते तदा सा सख्या समं कुलोचितं नगरम् । प्रविशन्ती दीनमुखी प्रतिरुद्धा द्वारपालेन ॥१६॥ प्रतिपृच्छितया शिष्टं वसन्तमालया द्वारपालस्य । पवनञ्जयादिकं सर्वमेवाञ्जनागमनम् ॥१७॥ अथ सोऽपि द्वारपालः शिलाकपाट इति नाम गत्वा । तदेव वचननिकसं महेन्द्रराज्ञः कथयति ॥१८॥ यद्द्वारपालेन शिष्टं दुहित्रागमं सापवादम् । तच्छ्रुत्वा महेन्द्रोऽधोमुखो लज्जितो जातः ॥ १९॥ रुष्टः प्रसन्नकीर्ति महेन्द्रपुत्रस्ततो भवत्येवम् । निस्सार्यतां पापकर्मा बाला कुलदुषण्येषा ॥२०॥ नाम्ना मधुत्साहः सामन्तो भणत्येवं न च युक्तम् । दुःखितानां भवतः शरणं माता - पितरौ महिलानाम् ॥२१॥ अत्यन्तनिष्ठुरा सा कीर्तिमती लोकधर्मकृतभावा । निर्दोषा एषा प्रभो ! बाला निष्काशिता तया ॥२२॥ भणति च महेन्द्रराजा पूर्वमपि मया श्रुतं यथैषा । पवनञ्जयस्य द्वेष्या तेन च गर्भस्य संदेहः ॥२३॥ मा भविष्यत्यपवादो ममाप्यनया संक्लेशेन । भणितश्च द्वारपालो निस्सारय लघु पुरवरात् ॥२४॥
I
१. पावकम्मं बालं - प्रत्य० ।
Jain Education International
For Personal & Private Use Only
१९१
www.jainelibrary.org