________________
५६
सगरपुत्राणामष्टापदयात्रा नागेन्द्रेण दहनं च
1
सगरो वि चक्कवट्टी, चउसट्ठिसहस्सजुवइकयविहवो । भुञ्जइ एगच्छत्तं, सयलसमत्थं इमं भरहं ॥१६८॥ अमरिन्दरूवसरिसा, सट्ठिसहस्सा सुयाण उप्पन्ना । अट्ठावयम्मि सेले, वन्दणहेउं समणुपत्ता ॥१६९॥ वन्दणविहाणपूयं, कमेण काऊण सिद्धपडिमाणं । अह ते कुमारसीहा, चेइयभवणे पसंसन्ति ॥ १७०॥ मन्तीहि ताण सिट्टं, एयाइं कारियाइँ भरहेणं । तुम्हेत्थ रक्खणत्थं, किंचि उवायं लहुं कुणह ॥१७१॥ दण्डरयणेण घायं, दाउं गङ्गानईए मज्झम्मि । सगरपुत्तेण उ ताहे, परिखेवो पव्वयस्स कओ ॥१७२॥ दट्ठूण य तं विवरं, नागिन्दो कोहजलणपज्जलिओ । सव्वे वि सयरपुत्ते, तक्खणमेत्तं डहइ रुट्ठो ॥१७३॥
दण्ढे दोणि जणे, ताणं मज्झट्ठिए कुमाराणं । काऊणं अणुकम्पं, जिणवरधम्मप्पभावेणं ॥ १७४॥ दट्ठूण मरणमेयं, सगरसुयाणं समत्तखन्धारो । भहरहि - भीमेण समं, साएयपुरिं समणुपत्तो ॥ १७५ ॥ सयरस्स निवेयन्ता, सुयमरणं भीम-भगिरही सहसा । नयसत्थपण्डिएहिं निवारिया ते अमच्चेहिं ॥ १७६ ॥ ते तत्थ पवरमन्ती, गन्तूण य पणमिऊण चक्कहरं । दिन्नासणोवविट्ठा, कयसन्ना जंपिउ पयत्ता ॥१७७॥ इह पेच्छ नरवइ ! तुमं, लोयस्स अणिच्चया असारत्तं ।
को
एत्थ कुणइ सोयं, जो पुरिसो पण्डिओ लोए ? ॥१७८॥
आसि पुरा चक्कहरो, भरहो नामेण तुज्झ समविभवो । छक्खण्डा जेण इमा, दासि व्व वसीकया पुई ॥ १७९॥ सगरपुत्राणामष्टापदयात्रा नागेन्द्रेण दहनं च -
सगरोऽपि चक्रवर्ती चतुःषष्टिसहस्रयुवतिकृतवैभवः । भुनक्ति एकछत्रं सकलसामर्थ्यमिमं भरतम् ॥१६८॥ अमरेन्द्ररुपसदृशाः षष्टिसहस्राणि सुतानामुत्पन्नाः । अष्टापदे शैले वन्दनहेतुं समनुप्रामाः ॥ १६९॥ वन्दनविधानपूजां क्रमेण कृत्वा सिद्धप्रतिमानाम् । अथ ते कुमारसिंहाश्चैत्यभवने प्रतिसरन्ति ॥ १७० ॥ मन्त्रिभिस्तेभ्यः शिष्टमेतानि कारितानि भरतेन । यूयमत्र रक्षणार्थं किंचिदुपायं लघु कुरु ॥१७१॥ दण्डरत्नेन घातं दत्वा गङ्गानद्यां मध्ये । सगरसुतेन तु तदा परिक्षेपः पर्वतस्य कृतः ॥ १७२ ॥ दृष्टवा च तद्विवरं नागेन्द्रः क्रोधज्वलनजलितः । सर्वानपि सगरपुत्रांस्तत्क्षणमेव दहति रुष्टः ॥१७४॥ न च दग्धौ द्वौ जनौ तेषां मध्यस्थितौ कुमाराणाम् । कृत्वाऽनुकम्पां जिनवरधर्मप्रभावेन ॥१७४॥ दृष्ट्वा मरणमेतत्सगरसुतानां समस्तः स्कन्धावारः । भगीरथभीमाभ्यां समं साकेतपुरीं समनुप्राप्तः ॥१७५॥ सगरस्य निवेदयन्तौ सुतमरणं भीम - भगीरथौ सहसा । नय - शास्त्रपाण्डितैर्निवारितौ तावमात्यैः ॥१७६॥ ते तत्र प्रवरमन्त्रिणो गत्वा च प्रणम्य चक्रधरम् । दत्ताऽऽसनोपविष्टाः कृतसंज्ञा जल्पितुं प्रयताः ॥१७७॥ इह पश्य नरपते ! त्वं लोकस्यानित्यताऽसारता । कोऽत्र करोति शोकं यः पुरुषः पण्डितो लोके ॥ १७८ ॥ आसीत्पुरा चक्रधरो भरतो नाम्ना तव समविभवः । षट्खण्डा येनेमा दासीव वसीकृता पृथिवी ॥ १७९॥ १. पइसरन्ति - मु० । २. दो वि जणे - प्रत्य० ।
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org