________________
रक्खसवं साहियारो - ५ / १४६ - १६७
पढमो आसग्गीवो १, तारगर मेरग३ निसुम्भ४ महुकेढो५ । बलि६ पल्हाओ७ रावण८ तह य जरासिन्धु९ पडिसत्तू ॥१५६॥
एए महाणुभावा, पुरिसा अवसप्पिणीए कालम्मि । एत्तियमेत्ता य पुणो, हवन्ति ऊसप्पिणीए वि ॥१५७॥ एक्वं जिणवरसिट्टं, धम्मं काऊण पवरभत्तीए । एवंविहा मणुस्सा, होऊण सिवं परमुवेन्ति ॥ १५८ ॥ जे पुण धम्मविरहिया, जीवा बहुपावकम्मपडिबद्धा । ते चउगइवित्थिण्णे, भमन्ति संसारकन्तारे ॥ १५९ ॥ एवं कालसभावं, सुणिऊणं महइपुरिससंबन्धं । घणवाहणो विरागं, तक्खणमेत्तेण संपत्तो ॥ १६० ॥ पञ्चिन्दियविसयविमोहिएण कन्तापसत्तचित्तेणं । धम्मो च्चिय नाहिकओ, हा ! कट्टं वञ्चिओ अप्पा ॥१६१ ॥ इन्दधणुसुमिणसरिसे, विज्जुलयाचवलचञ्चले जीए। को नाम करेज्ज रइं, जो होज्ज सचेयणो पुरिसो ? ॥ १६२ ॥ ता उज्झिऊण रज्जं, कन्ता पुत्ता धणं च धण्णं च । गेण्हामि परमबन्धुं पारत्तबिइज्जयं धम्मं ॥ १६३॥ अहिसिञ्चिऊण रज्जे, सो हु महारक्खसं पढमपुत्तं । उम्मुक्कसव्वसङ्गो, पव्वज्जमुवागओ धीरो ॥१६४॥ लङ्कापुरीए सामी, घणवाहणनन्दणो पहियकित्ती । विज्जाहराण राया, भुञ्जइ रज्जं सुरवरो व्व ॥१६५॥ भज्जा से विमलाभा, तीए पुत्ता कमेण उप्पन्ना । पढमो य देवरक्खो, उअही आइच्चरक्खो य ॥१६६॥ अजिजिन्दो यतओ, धम्मपहं दरिसिऊण लोयस्स । सम्मेयसेलसिहरे, सिवमयलमणुत्तरं पत्तो ॥१६७॥
प्रथमोऽश्वग्रीवस्तारको मेरको निशुम्भो मधुकैटभः । बलिः प्रह्लादो रावणस्तथा जरासिन्धुः प्रतिशत्रवः ॥१५६॥ एते महानुभावाः पुरुषा अवसर्पिण्यां काले । एतावन्मात्राश्च पुनर्भविष्यन्त्युत्सर्पिण्यामपि ॥१५७॥ एकं जिनवरशिष्टं धर्मं कृत्वा प्रवरभक्त्या । एवंविधा मनुष्या भूत्वा शिवं परमुपयान्ति ॥ १५८॥ ये पुनर्धर्मविरहिता जीवा बहुपापकर्मप्रतिबद्धाः । ते चतुर्गतिविस्तीर्णे भ्रमन्ति संसारकांतारे ॥१५९॥ एवं कालस्वभावं श्रुत्वा महापुरुषसम्बन्धम् । धनवाहनो वैराग्यं तत्क्षणमात्रेण संप्राप्तः ॥ १६० ॥ पञ्चेन्द्रियविषयविमोहितेन कान्ताप्रसक्तचित्तेन । धर्म एव नाधिकृतो हा ! कष्टं वञ्चित आत्मा ॥ १६९॥ इन्द्रधनुस्स्वप्नसदृशे विद्युल्लताचपलचञ्चले जीवे । को नाम कुर्याद्रतिं, यो भवेत्सचेतनः पुरुषः ॥१६२॥ तत उज्जित्वा राज्यं कान्ता पुत्रा धनं च धान्यं च । गृह्णामि परमबन्धुं परत्रद्वितीयं धर्मम् ॥१६३॥ अभिषिञ्च्य राज्ये स हु महारक्षसं प्रथमपुत्रम् | उन्मुक्तसर्वसङ्गः प्रव्रज्यामुपागतो धीरः ॥ १६४ ॥ लङ्कापुर्याः स्वामी धनवाहननन्दनः प्रथितकीर्तिः । विद्याधराणां राजा भुनक्ति राज्यं सुरवर इव ॥१६५॥ भार्या तस्य विमलाभा तस्यां पुत्राः क्रमेणोत्पन्नाः । प्रथमश्च देवरक्षा उदधिरादित्यरक्षाश्च ॥१६६॥ अजितजिनेन्द्रश्च ततो धर्मपथं दर्शयित्वा लोकस्य । सम्मेतशैलशिखरे शिवमचलमनुत्तरं प्राप्तः ॥ १६७॥
१. परमभत्तीए - प्रत्य० ।
Jain Education International
५५
For Personal & Private Use Only
www.jainelibrary.org