________________
१८
पउमचरियं
या विनिययभवणे, मणिदीवजलन्तकिरणविच्छुरिए । सयणे सुहप्पसुत्तो, कुसुम पडोच्छ्इयपल्लङ्के ॥१०१॥ निहं सेवन्तो च्चिय, सुविणे वि पुणो पुणो जिणवरिन्दं । पेच्छइ पुच्छ्इ य तओ, संसय परमं पयत्तेणं ॥१०२॥ घणगुरुगभीरगज्जिय-निणायबहुतूरबन्दिसद्देणं । अह उट्ठिओ महप्पा, थुव्वन्तो मङ्गलसएहिं ॥१०३॥ चिन्तेऊण पवत्तो, भणियं वीरेण धम्मसंजुत्तं । चक्कहराइनराणं, भुवणमिणं हवइ परिहाणं ॥ १०४ ॥ पउमचरियम्मि एत्तो, मणो महं कुणइ परमसंदेहं । कह वाणरेहि निहया, रक्खसवसहा अइबला वि ? ॥१०५॥ जिणवरधम्मेणं चिय, महइमहाकुलसमुब्भवा जाया । विज्जासयाण पारं, गया य बलगव्विया वीरा ॥१०६॥ सुव्वन्ति लोयसत्थे, रावणपमुहा य रक्खसा सव्वे । वस - लोहिय- मंसाई - भक्खम - पाणे कयाहारा ॥१०७॥ किर रावणस्स भाया, महाबलो नाम कुम्भयण्णो त्ति । छम्मासं विगयभओ, सेज्जासु निरन्तरं सुयइ ॥ १०८ ॥ जइ वि य गएसु अङ्गं, पेल्लिज्जइ गरुयपव्वयसमेसु । तेल्लवडेसु य कण्णा, पूरिज्जन्ते निद्दयन्तस्स ॥१०९॥ पडुपडहतूरसद्दं, न सुणइ सो सम्मुहं पि वज्जन्तं । न य उट्ठेइ महप्पा, सेज्जाए अपुण्णकालम्मि ॥११०॥ अह उट्ठओ वि सन्तो असणमहा (णामह) घोरपरिगयसरीरो ।
४
ओ हवेज्ज जो सो, कुञ्जर- महिसाइणो गिलइ ॥१११॥ काऊण उदरभरणं, सुर- माणुस - कुञ्जराइबहुए । पुणरवि सेज्जारूढो, भयरहिओ सुयइ छम्मासं ॥ ११२ ॥ अन्नं पि' एव सुव्वइ, जह इन्दो रावणेण संगामे । जिणिऊण नियलबद्धो, लङ्कानयरी समाणीओ ॥११३॥
राजाऽपि निजभवने, मणिदीपज्वलत्किरणविस्फुरिते । शयने सुखप्रसुप्तः कुसुमपटाच्छादितपल्यङ्के ॥१०१॥ निद्रां सेवमानश्चैव, स्वप्नेऽपि पुनः पुनर्जिनवरेन्द्रम् । प्रेक्षते पृच्छति च ततः संशयं परमं प्रयत्नेन ॥१०२॥ घनगुरुगंभीरगर्जितनिनादबहुतूर्यबन्दिशब्देन । अथोत्थितो महात्मा, स्तुवन्मङ्गलशतैः ॥१०३॥
चिन्तयितुं प्रवृतो भणितं वीरेण धर्मसंयुक्तम् । चक्रधरादिनराणां भुवनमिदं भवति परिधानम् ॥१०४॥ पद्मचरित्रे एतस्मान्मनो मम करोति परमसंदेहम् । कथं वानरै निहताः राक्षसवृषभा अतिबला अपि ? ॥१०५॥ जिनवरधर्मेण चैव महतिमहाकुलसमुद्भवा जाताः । विद्याशतानां पारं गताश्च बलगर्विता वीराः ॥ १०६ ॥ श्रूयन्ते लोकशास्त्रे रावणप्रमुखाश्च राक्षसाः सर्वे । वसा - लोहित - मांसादि भक्षण -पाने कृताहाराः ||१०७|| किल रावणस्य भ्राता महाबलो नाम कुम्भकर्ण इति । षण्मासं विगतभयः शय्यासु निरन्तरं शेते ॥ १०८ ॥ यद्यपि च गजैरङ्गं पीड्यते गुरुपर्वतसमैः । तैलघटैश्च कर्णौ पूर्यतः सुप्तस्य ॥ १०९॥ पटुपहतूर्यशब्दं न श्रुणोति स्वसमुखमपि वाद्यमानम् । न चोत्तिष्ठति महात्मा शय्याया अपूर्णकाले ॥११०॥ अथोत्थितोऽपि सन्नसममहाघोरपरिगतशरीरः । पुरो भवेद्यान् स कुञ्जर- महीषादीन् गलति ॥ १११ ॥ कृत्वोदरभरणं सुर-मनुष्य-कुञ्जरादिबहुभिः । पुनरपि शय्यारुढो भयरहितः शेते षण्मासम् ॥११२॥ अन्यदप्येवं श्रूयते यथेंद्रः रावणेन संग्रामे । जित्वा निगडबद्धो लङ्कानगरीं समानीतः ॥११३॥
१. ज्ञायते । २. पटावस्तृत । ३. धीरा - प्रत्य० । ४. अशना- क्षुधा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org