________________
१८८
पवनञ्जयाञ्जनयोः मीलनम् -
-
तो भइ पवणवेगो, जं सि तुमं सासिया अकज्जेणं । तं मे खमाहि सुन्दरि !, अवराहसहस्ससंघायं ॥७४॥ भाइ य महिन्दतणया, नाह ! तुमं नत्थि कोइ अवराहो । सुमरिय मणोरहफलं, संपइ नेहं वहेज्जासु ॥७५॥ तो भइ पवणवेगो, सुन्दरि ! पम्हुससु सव्वअवराहे । होहि सुपसन्नहियया, एस पणामो कओ तुज्झं ॥७६॥ आलिङ्गिया सनेहं कुवलयदलसरिसकोमलसरीरा । वयणं पियस्स अणिमिस - नयणेहि व पियइ अणुरायं ॥७७॥ घणनेहनिब्भराणं, दोण्ह वि अणुरायलद्धपसराणं । आवडियं चिय सुरयं, अणेगचडुकम्मविणिओगं ॥ ७८ ॥ आलिङ्गण-परिचुम्बण-रइउच्छाहणगुणेहि सुसमिद्धं । निव्ववियविरहदुक्खं, मणतुट्ठियरञ्जियजहिच्छं ॥७९॥ सुरतूस समत्ते, दोणि वि खेयालसङ्गमङ्गाई । अन्नोन्नभुयालिङ्गण-सुहेण निद्दं पवन्नाई ॥८०॥ एवं कमेण ताणं, सुरयसुहासायलद्धनिद्दाणं । किंचावसेससमया, ताव य रयणी खयं पत्ता ॥८१॥ रयणीमुहपडिबुद्धो, पवणगई भाइ पहसिओ मित्तो । उट्ठेहि लहुं सुपुरिस !, खन्धावारं पगच्छामो ॥८२॥ सुणिऊण मित्तवणं, सयणाओ उट्ठिओ पवणवेगो । उवगूहिऊण कन्तं, भणइ य वयणं निसामेहि ॥ ८३ ॥ अच्छ तुमं वीसत्था, मा उव्वेयस्स देहि अत्ताणं । जाव अहं दहवयणं, दट्ठूण लहुं नियत्तामि ॥८४॥
पवनञ्जयाञ्जनयोः मीलनम् -
तदा भणति पवनवेगो यदसि त्वं शासिताऽकार्येण । तन्मे क्षमस्व सुन्दरि ! अपराधसहस्रसंघातम् ॥७४॥ भणति च महेन्द्रतनया नाथ ! तव नास्ति कोऽप्यपराधः । स्मृत्वा मनोहरफलं संप्रति स्नेहं वह ॥ ७५ ॥ तदा भणति पवनवेगः सुन्दरि ! विस्मर सर्वापराधान् । भव सुप्रसन्नहृदया एष प्रणामः कृतस्तव ॥७६॥ आलिङ्गिता सस्नेहं कुवलयदलसदृशकोमलशरीरा । वदनं प्रियस्यानिमेषनयनैरिव पिबत्यनुरागम् ॥७७॥ धनस्नेहनिर्भरयो द्वयोरप्यनुरागलब्धप्रसरयोः । आपतितमेव सुरतमनेकचाटुकर्मविनियोगम् ॥७८॥ आलिङ्गन-परिचुम्बन-रत्युत्साहगुणैः सुसमृद्धम् । निर्वापितविरहदुःखं मनस्तुष्टितरञ्जितयथेच्छम् ॥७९॥ सुरतोत्सवे समाप्ते द्वयोरपि खेदालसाङ्गमङ्गानि । अन्योन्यभुजालिङ्गनसुखेन निद्रां प्रपन्नानि ॥८०॥ एवं क्रमेण तयोः सुरतसुखास्वादलब्धनिद्रयोः । किंचिदवशेषसमया तावच्च रजनी क्षयं प्राप्ता ॥८१॥ रजनीमुखे प्रतिबुद्धः पवनगतिं भणति प्रहसितो मित्रम् । उत्तिष्ठ लघु सत्पुरुष ! स्कन्धावारं प्रगच्छावः ॥८२॥ श्रुत्वा मित्रवचनं शयनादुत्थितः पवनवेगः । उपगुह्य कान्तां भवति च वचनं निशामय ॥८३॥ आस्स्व त्वं विश्वस्ता मोद्वेगस्य देह्यात्मानम् । यावदहं दशवदनं दृष्ट्वा लघु निवर्तयामि ॥८४॥
१. पवणगई - प्रत्य० ।
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org