________________
१४८
पउमचरियं तो जाणिऊण पभवो, वणमाला पेसिया सुमित्तेणं । संवेगसमावन्नो, पडिवहहुत्तं विसज्जेइ ॥२४॥ हा ! कटुंचिय पावो, सुमित्तमहिलाहिलासकयहियओ । नूणं वज्जसरीरो, हिमं व जो हं न य विलीणो ॥२५॥ किं वा जीवेण महं, अयसकलंकुब्भडेण लोयम्मि ? । खग्गेण निययसीसं, लुणामि सिग्धं अचारित्तो ॥२६॥ आयड्डिऊण खग्गं, नीलुप्पलसन्निहं कयं कण्ठे। परिणायचेट्ठिएणं, सहसा धरिओ सुमित्तेणं ॥२७॥ रागेण व दोसेण व, जे पुरिसा अप्पयं विवायन्ति । ते पावमोहियमई, भमन्ति संसारकन्तारे ॥२८॥ खग्गं कराउ हरियं, सो य सुमित्तेण उवसमं नीओ । दोण्णि वि करेन्ति रज्जं, अवियण्हमणा बहुं कालं ॥२९॥ अह अन्नया कयाई, पव्वज्जं गिण्हिऊण कालगओ। ईसाणकप्पवासी, सुमित्तराया समुप्पन्नो ॥३०॥ चइऊण विमाणाओ, माहविदेवीए गब्भसंभूओ । हरिवाहणस्स पुत्तो, जाओ एसो महुकुमारो ॥३१॥ मिच्छत्तमोहियमई, पभवो मरिऊण भमिय संसारे। विस्सावसुस्स पुत्तो, जोइमईए सिही जाओ ॥३२॥ काऊण समणधम्म, सणियाणं तत्थ चेव कालगओ। जाओ भवणाहिवई, चमरकुमारो महिड्डीओ ॥३३॥ अवहिविसएण मित्तं नाऊण पुराकयं च उवयारं । महुरायस्स य गन्तुं, तिसूलरयणं पणामेइ ॥३४॥ एयं ते परिकहियं, चरियं महुपत्थिवस्स निस्सेसं । जो पढइ सुणइ सेणिय ! सो पुण्णफलं समज्जेइ ॥३५॥ लङ्काहिवो वि पुहई, जिणिऊणऽट्ठारसेसु वरिसेसु । जिणचेइयपूयत्थं, अट्ठावयपव्वयं पत्तो ॥३६॥ तदा ज्ञात्वा प्रभवो वनमाला प्रेषिता सुमित्रेण । संवेगसमापन्नः प्रतिपथाभिमुखं विसर्जयति ॥२४॥ हा ! कष्टमेव पापः सुमित्रमहिलाभिलाषकृतहृदयः । नूनं वज्रशरीरो हिममिव योऽहं न च विलीनः ।।२५।। किं वा जीवेन ममायशः कलङ्कोद्भटेन लोके ? । खड्गेन निजशीर्षं लुनामि शीघ्रमचारित्रः ॥२६॥ आकृष्य खड्गं नीलोत्पलसन्निभं कृतं कण्ठे। परिज्ञातचेष्टितेन सहसा धृतः सुमित्रेण ॥२७॥ रागेण वा द्वेषेण वा ये पुरुषा आत्मानं व्यापादयन्ति । ते पापमोहितमतयो भ्रमन्ति संसारकान्तारे ॥२८॥ खड्गकराद्धृतं स च सुमित्रेणोपशमं नीतः । द्वावपि कुरुतो राज्यमविघ्नमनसौ बहुकालम् ॥२९।। अथान्यदा कदाचित्प्रव्रज्यां गृहीत्वा कालगतः । ईशानकल्पवासी सुमित्रराजा समुत्पन्नः ॥३०॥ च्युत्वा विमानान्माधविदेव्या गर्भसंभूतः । हरिवाहनस्य पुत्रो जात एष मधुकुमारः ॥३१॥ मिथ्यात्वमोहितमतिः प्रभवो मृत्वा भ्रान्त्वा संसारे । विश्वावसोः पुत्रो ज्योतिमत्यां शिखी जातः ॥३२॥ कृत्वा श्रमणधर्मं सनिदानं तत्रैव कालगतः । जातो भवनाधिपतिश्चमरकुमारो महद्धिकः ॥३३॥ अवधिविषयेन मित्रं ज्ञात्वा पुराकृतं चोपकारम् । मधुराज्ञश्च गत्वा त्रिशूलरत्नमर्ययति ॥३४॥ एतत्ते परिकथितं चरित्रं मधुपार्थिवस्य निःशेषम् । यः पठति श्रुणोति श्रेणिक ! स पुण्यफलं समर्जयति ॥३५॥ लङ्काधिपोऽपि पृथिवीं जित्वाऽष्टादशसु वर्षेषु । जिनचैत्यपूजार्थमष्टापदपर्वतं प्राप्तः ॥३६॥
१. वरकुमारो-प्रत्य० । २. पुहई-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org